MCQ Questions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः with Answers

Practicing the Class 8 Sanskrit Chapter 8 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of संसारसागरस्य नायकाः Class 8 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 8 Sanskrit संसारसागरस्य नायकाः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत

शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः। इमे एव तडागाः अत्र संसारसागराः इति। एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककम्, निर्मातॄणां च दशकम् आसीत्।

Question 1.
‘पुरा ते बहुप्रथिताः आसन्।’ अत्र अव्ययपदं किं?
(क) पुरा
(ख) ते
(ग) आसन्
(घ) बहुप्रथिताः

Answer

Answer: (क) पुरा


Question 2.
“अशेषे हि देशे तडागाः निर्मीयन्ते स्म”। इत्यत्र कर्मपदं किं?
(क) हि
(ख) देशे
(ग) तडागाः
(घ) अशेषे

Answer

Answer: (ग) तडागाः


Question 3.
‘इत्येतानि’ इत्यत्र कः सन्धिः?
(क) गुण
(ख) दीर्घ
(ग) यण्
(घ) वृद्धि

Answer

Answer: (ग) यण्


Question 4.
‘नमः एतादृशेभ्यः शिल्पिभ्यः’ अस्मिन् वाक्ये ‘नमः’ योगे का विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) पञ्चमी
(घ) षष्ठी

Answer

Answer: (ख) चतुर्थी


Question 5.
‘भवेयुः’ इति पदे कः लकारः?
(क) लट
(ख) लोट
(ग) लङ्
(घ) विधिलिङ्

Answer

Answer: (घ) विधिलिङ्


Question 6.
‘चलन्तः’ इत्यत्र कः प्रत्ययः?
(क) शतृ
(ख) ता
(ग) क्त
(घ) तल्

Answer

Answer: (क) शतृ


Question 7.
यः गजपरिणामं धारयति सः ………. कथ्यते। रिक्तस्थानं पूरयत
(क) कुम्भकारः
(ख) गजधरः
(ग) गजधराः
(घ) अयस्कारः

Answer

Answer: (ख) गजधरः


Question 8.
शून्यात् सहसैव के न प्रकटीभूता?
(क) सहसैव
(ख) तडागाः
(ग) सहस्रशः
(घ) शतशः

Answer

Answer: (ख) तडागाः


Question 9.
‘एतेषाम्’ इति सर्वनामपदं केभ्यः प्रयुक्तं?
(क) तडागेभ्यः
(ख) संसारसागरेभ्यः
(ग) तडागाः
(घ) तडागाय

Answer

Answer: (क) तडागेभ्यः


Question 10.
‘निर्मातॄणाम्’ इत्यत्र का विभक्तिः?
(क) द्वितीया
(ख) तृतीया
(ग) सप्तमी
(घ) षष्ठी

Answer

Answer: (घ) षष्ठी


Question 11.
इमे तडागाः के सन्ति?

Answer

Answer: इमे तडागाः संसारसागराः सन्ति।


रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत

Question 1.
गजधरेभ्यः सम्मानः अपि दीयते स्म।
(क) काभिः
(ख) काभ्यः
(ग) केभ्यः
(घ) केभयः

Answer

Answer: (ग) केभ्यः


Question 2.
नूतनसमाजस्य मनसि जिज्ञासा न उद्भूता।
(क) कस्मिन्
(ख) का
(ग) कः
(घ) किम्

Answer

Answer: (क) कस्मिन्


Question 3.
यः नूतनः प्रविधिः विकसितः।
(क) कीदृशी
(ख) कीदृशं
(ग) कीदृशः
(घ) कीदृशाः

Answer

Answer: (ग) कीदृशः


अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

गजधराः वास्तुकाराः आसन्। कामं ग्रामीणसमाजो भवतु नागरसमाजो वा तस्य नव-निर्माणस्य सुरक्षा प्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म। नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि
एतेष्वेव आधृतानि आसन्।

Question 1.
‘तस्य’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) पंचमी
(घ) चतुर्थी

Answer

Answer: (क) षष्ठी।


Question 2.
आसन्’ इत्यस्य एकवचनान्त रूपं किम् अस्ति?
(क) आस्म
(ख) आसीत्
(ग) आस्व.
(घ) आस्ते

Answer

Answer: (ख) आसीत्।


Question 3.
गजधराः के आसन्?

Answer

Answer: वास्तुकाराः।।


Question 4.
सर्वाणि कार्याणि केषु एव आधृतानि?

Answer

Answer: गजधरेषु।


Question 5.
सुरक्षाप्रबन्धनस्य दायित्वं के निभालयन्ति स्म?

Answer

Answer: गजधराः सुरक्षाप्रबन्धनस्य दायित्वं निभालयन्ति स्म।


समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्

पुरा ते बहुप्रथिताः आसन्।
भावः- प्राचीनकाले ते …………. आसन्।

Answer

Answer: प्राचीनकाले ते बहुप्रसिद्धाः आसन्।


अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) इमे तडागाः अत्र संसारसागराः इति।
भावार्थाः
(i) तडागाः एव संसारसागराः कथ्यन्ते।
(ii) तडागाः संसारे सागराः इव सन्ति।
(iii) तडागाः सागरे मिलन्ति।

Answer

Answer: (i) तडागाः एव संसारसागरा: कथ्यन्ते।


अधोलिखितेषु शुद्धकथनं (✓) चिह्नन अशुद्धकथनं (x) चिह्नन अङ्कयत

(i) गजधरेभ्यः वेतनं विहाय सम्मानो दीयते स्म।
(ii) वेतनस्य अतिरिक्तं सम्मानोऽपि तेभ्यः दीयते स्म।

Answer

Answer:
(i) (x)
(ii) (✓)


अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
गजधरा; वास्तुकाराः आसन्।
(क) काः
(ख) कौ
(ग) के
(घ) कः

Answer

Answer: (ग) के


Question 2.
गजधरेभ्यः सम्मानोऽपि प्रदीयते स्म।
(क) कैः
(ख) केभ्यः
(ग) कस्मै
(घ) कस्मात्

Answer

Answer: (ख) केभ्यः


Question 3.
गजधरः गजपरिमाणं धारयति स्म।
(क) किम्
(ख) कम्
(ग) कानि
(घ) के

Answer

Answer: (क) किम्


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) गजधराः वास्तुकाराः आसन्।
(ii) के आसन् ते अज्ञातनामानः।
(iii) यः गजपरिमाणं धारयति स गजधरः।
(iv) नमः एतादृशेभ्यः शिल्पिभ्यः।
(v) राजस्थानस्य केषुचित् भागेषु शब्दोऽयम् प्रचलति।
(vi) पुरा ते बहुप्रथिताः आसन्।

Answer

Answer:
(i) के आसन् ते अज्ञातनामानः।
(ii) पुरा ते बहुप्रथिताः आसन्।
(iii) राजस्थानस्य केषुचित् भागेषु शब्दोऽयम् प्रचलति।
(iv) यः गजपरिमाणं धारयति स गजधरः।
(v) गजधराः वास्तुकाराः आसन्।
(vi) नमः एतादृशेभ्यः शिल्पिभ्यः।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत

……………. वास्तुकाराः आसन्। कामं ग्रामीणसमाजो वा ………………. नवनिर्माणस्य ……………. च ……………… गजधराः ………….. स्म।
निभालयन्ति, दायित्वम्, सुरक्षाप्रबन्धनस्य, तस्य, गजधराः।

Answer

Answer:
गजधरा: वास्तुकाराः आसन्। कामं ग्रामीणसमाजो वा तस्य नवनिर्माणस्य सुरक्षाप्रबन्धनस्यदायित्वं गजधराः निभालयन्ति स्म।


अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(i) सम्मानः – नवीनः
(ii) प्रथितः – प्राचीनकाले
(iii) पुरा – सम्प्रति
(iv) उद्भूताः – आदरः
(v) इदानीम् – उत्पन्नाः
(vi) नूतनः – प्रसिद्धः

Answer

Answer:
शब्दाः – अर्थाः
(i) सम्मानः – आदरः
(ii) प्रथितः – प्रसिद्धः
(iii) पुरा – प्राचीनकाले
(iv) उद्भूताः – उत्पन्नाः
(v) इदानीम् – सम्प्रति
(vi) नूतनः – नवीनः।


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *