MCQ Questions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता with Answers

Practicing the Class 8 Sanskrit Chapter 2 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of बिलस्य वाणी न कदापि में श्रुता Class 8 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 8 Sanskrit बिलस्य वाणी न कदापि में श्रुता MCQ Multiple Choice Questions with Answers PDF.

उचितं अव्ययपदं चित्वा वाक्यं पूरयत

Question 1.
सिंहस्य उच्चगर्जनेन गुहा ………… शृगालं आह्वयत्।
(क) उच्चैः
(ख) नीचैः
(ग) अद्यः
(घ) सहसा

Answer

Answer: (क) उच्चैः


Question 2.
गुहायाः’ इति पदे का विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) सप्तमी

Answer

Answer: (ग) षष्ठी


Question 3.
‘विचार्य’ इत्यत्र कः प्रत्ययः?
(क) ल्यप्
(ख) क्त्वा
(ग) क्त
(घ) यत्

Answer

Answer: (क) ल्यप्


Question 4.
‘निष्क्रम्य’ इति पदस्य विलोमपदं किं?
(क) निष्क्रान्तः
(ख) प्रविश्य
(ग) प्रविशत्
(घ) प्राविशत्

Answer

Answer: (ख) प्रविश्य


Question 5.
‘अकस्मात्’ इत्यस्य पदस्य समानार्थकं अव्ययपदं किं?
(क) समं
(ख) सार्धम्
(ग) सह
(घ) सहसा

Answer

Answer: (घ) सहसा


Question 6.
‘उच्यते’ इति क्रियापदे कः धातुः?
(क) उच्
(ख) वच्
(ग) उच्य्
(घ) उच्यत

Answer

Answer: (ख) वच्


Question 7.
‘यदाह’ इति पदस्य सन्धिच्छेदं किम्?
(क) यद् + अहं
(ख) यद + अहं
(ग) यदा + अहं
(घ) यदा + हं

Answer

Answer: (ग) यदा + अहं


अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?”

Question 1.
शृगालस्य नाम किम् आसीत्?
(क) स्वामी
(ख) दुग्धपुच्छः
(ग) दधिपुच्छः
(घ) गुहायाः

Answer

Answer: (ग) दधिपुच्छः


Question 2.
‘विनष्टोऽस्मि’ इति कः अचिन्तयत्?
(क) सिंहः
(ख) शृगालः
(ग) गजः
(घ) अश्वः

Answer

Answer: (ख) शृगालः


Question 3.
‘करवाणि’ इति क्रियापदे कः लकारः?
(क) लङ्
(ख) लुट्
(ग) लट्
(घ) लोट

Answer

Answer: (घ) लोट


Question 4.
कस्य पदपद्धतिः गुहायां प्रविष्टा दृश्यते?

Answer

Answer: सिंहस्य पदपद्धतिः गुहायां प्रविष्टा दृश्यते।


रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत

Question 1.
कदापि बिलस्य वाणी मे न श्रुता।
(क) कः
(ख) का
(ग) के
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 2.
नूनं अस्मिन् बिले सिंहः अस्ति।
(क) के
(ख) कदा
(ग) कुत्र
(घ) का

Answer

Answer: (ग) कुत्र


Question 3.
सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्।
(क) कदा
(ख) कति
(ग) के
(घ) कः

Answer

Answer: (क) कदा


Question 4.
‘एतस्यां‘ इत्यस्य पदस्य मूलशब्दं किं?
(क) अयं
(ख) एतद्
(ग) एत
(घ) इदम्

Answer

Answer: (ख) एतद्


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

(1) कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति।

Question 1.
‘सः’ इति सर्वनामपदस्य स्थाने संज्ञापदं किम् भविष्यति?
(क) जीवः
(ख) सिंहः
(ग) क्षुधातः
(घ) वने

Answer

Answer: (ख) सिंहः।


Question 2.
‘क्षुधातः’ इति विशेषणपदस्य कर्तृपदं किम्?
(क) गुहां
(ख) रात्रौ।
(ग) सिंहः
(घ) आहारं

Answer

Answer: (ग) सिंहः।


Question 3.
‘आयाति’ इति पदस्य पर्यायशब्दं गद्यांशे किम् प्रयुक्तम्?
(क) प्रतिवसति
(ख) परिभ्रमन्
(ग) आगच्छति
(घ) प्राप्तवान्

Answer

Answer: (ग) आगच्छति।


Question 4.
सिंहस्य नाम किम् अस्ति?

Answer

Answer: खरनखरः।


Question 5.
सिंहः किं दृष्ट्वा अचिन्तयत्?

Answer

Answer: गुहाम्।


Question 6.
गुहा कीदृशी आसीत्?

Answer

Answer: महती।


Question 7.
सिंहः कुत्र प्रतिवसति स्म?

Answer

Answer: सिंहः कस्मिंश्चित् वने प्रतिवसति स्म।


Question 8.
परिभ्रमन् सिंहः किं न प्राप्तवान्?

Answer

Answer: परिभ्रमन् सिंहः किञ्चिदपि आहारं न प्राप्तवान्।


(2) तदा गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् । स पश्यति यत् सिंहपदपद्धतिः गुहायां प्रविष्टा, न तु बहिरागता। सोऽचिन्तयत्-नूनम् अस्मिन् बिले सिंहः अस्ति। सः रवं कर्तुम् आरब्धः-भो बिल! किम् अद्य त्वं मां न आह्वयसि?

Question 1.
गुहायाः स्वामी कः आसीत्?

Answer

Answer: शृगालः।


Question 2.
शृगालः किं कर्तुम् आरब्धः?

Answer

Answer: रवम्।


Question 3.
गुहायां का प्रविष्टा?

Answer

Answer: गुहायां सिंहपदपद्धतिः प्रविष्टा।


Question 4.
तदा कः समागच्छत्?

Answer

Answer: तदा गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।


Question 5.
‘सोऽचिन्तयत्’ अत्र सज्ञापदं लिखत।

Answer

Answer: शृगालः।


Question 6.
‘न आह्वयसि’ इत्यत्र सन्धिः कार्यः।

Answer

Answer: नाऽऽह्वयसि।


Question 7.
‘नूनम्’ इत्यस्य पर्यायशब्दं लिखत।

Answer

Answer: खलु।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावः स्पष्टो भवेत्

(क) सिंहः महतीं गुहां दृष्ट्वा अचिन्तयत्।
अस्य भावः अस्ति यत् सिंहः ……………. गुहां ………………… अचिन्तयत्।

Answer

Answer:
अस्य भावः अस्ति यत् सिंहः विशालां गुहां वीक्ष्य अचिन्तयत्।


(ख) अत्रैव निगूढो भूत्वा तिष्ठामि।
अस्य भावः अस्ति यद् अहम् अस्मिन् ………………. एव ……………… भूत्वा तिष्ठामि।

Answer

Answer:
अस्य भावः अस्ति यद् अहम् अस्मिन् स्थाने एव प्रच्छन्नो भूत्वा तिष्ठामि।


अधोलिखितेषु विकल्पेषु समुचितं भावं चित्वा लिखत

(क) कस्मिंश्चिद् वने एकः सिंहः प्रतिवसति स्म।
(i) कस्मिंश्चिद् नगरे एकः सिंहः वसति स्म।
(ii) कस्मिंश्चिद् वने एकः सिंहः वसति स्म।
(iii) एकस्मिन् वने सिंहः मृगान् खादति स्म।
(iv) एकस्मिन् वने सिंहः स्वपिति स्म।

Answer

Answer: (ii) कस्मिंश्चिद् वने एकः सिंहः वसति स्म।


(ख) सिंहः किञ्चिदपि आहारं न प्राप्तवान्।
(i) सिंहः भोजनं न प्राप्तवान्।
(ii) सिंहः भोजनं न कृतवान्।
(iii) सिंहः भोजनं न खादितवान्।
(iv) सिंहः भोजनं न दृष्टवान्।

Answer

Answer: (i) सिंहः भोजनं न प्राप्तवान्।


अधोलिखितेषु भावकथनेषु यत् कथनं शुद्धं तत् (✓) चिह्नन, यच्चाऽशुद्धं तत् (x) चिह्नन अङ्कयत।

(क) गुहायां रात्रौ कोऽपि आगच्छति
(i) गुहायां रात्रिः आगच्छति।
(ii) गुहायां कोऽपि रात्रिकाले आगच्छति।

Answer

Answer:
(i) गुहायां रात्रिः आगच्छति। (x)
(ii) गुहायां कोऽपि रात्रिकाले आगच्छति। (✓)


(ख) सः किञ्चिदपि आहारं न प्राप्तवान्।
(i) सः स्वल्पमपि भोजनं न प्राप्तवान्।
(ii) सः भोजनं प्राप्तवान्, न आहारम्।

Answer

Answer:
(i) सः स्वल्पमपि भोजनं न प्राप्तवान्। (✓)
(ii) सः भोजनं प्राप्तवान्, न आहारम्। (x)


अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

Question 1.
वने सिंहः प्रतिवसति स्म।
(i) का
(ii) किम्
(iii) कः
(iv) कम्

Answer

Answer: (iii) कः


Question 2.
सिंहः क्षुधार्तः आसीत्।
(i) किम्
(ii) कीदृशः
(iii) कस्मिन्
(iv) कान्

Answer

Answer: (ii) कीदृशः


Question 3.
सिंहः सायं गुहाम् अपश्यत्।
(i) कुत्र
(ii) तदा
(iii) कदा
(iv) कीदृशः

Answer

Answer: (iii) कदा


घटनाक्रमाऽनुसारम् अधोलिखितानि वाक्यानि पुनः लिखत

(i) शृगालः दूरं पलायमानः श्लोकम् अपठत्।
(ii) दधिपुच्छः रवं कर्तुम् आरब्धः।
(iii) वने खरनखरः नाम सिंहः प्रतिवसति स्म।
(iv) अन्ये पशवः भयभीताः अभवन्।
(v) सिंहः शृगालस्य आह्वानम् अकरोत्।
(vi) गुहायाः स्वामी तत्र समागच्छत्।
(vii) सः किञ्चिदपि आहारं न प्राप्तवान्।

Answer

Answer:
(i) वने खरनखरः नाम सिंहः प्रतिवसति स्म।
(ii) सः किञ्चिदपि आहारं न प्राप्तवान्।
(ii) गुहायाः स्वामी तत्र समागच्छत्।
(iv) दधिपुच्छः रवं कर्तुम् आरब्धः।
(v) सिंहः शृगालस्य आह्वानम् अकरोत्।
(vi) अन्ये पशवः भयभीताः अभवन्।
(vii) शृगालः दूरं पलायमानः श्लोकम् अपठत्।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषायाः उचितपदैः पूरयत

एतस्मिन् अन्तरे ……………………… स्वामी दधिपुच्छः नाम …………….. समागच्छत् । स च यावत् ………………… तावत् सिंहपदपद्धतिः गुहायां ……………….. दृश्यते, न च ………………. आगता। शृगालः अचिन्तयत्-“अहो, ……………….. अस्मि, नूनम् अस्मिन् …………………… सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?” एवं ………………………… दूरस्थः ………………………… कर्तुमारब्धः।

शृगालः, प्रविष्टा, विचिन्त्य, गुहायाः, विनष्टो, बहिर्, पश्यति, बिले, रवम्।

Answer

Answer:
एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत् । स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिर् आगता। शृगालः अचिन्तयत्-“अहो, विनष्टो अस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?” एवं विचिन्त्य दूरस्थः रवं कर्तुमारब्धः।


अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अर्थैः सह मेलनं क्रियताम्

शब्दाः – अर्थाः
(i) वने – आयाति।
(ii) इतस्ततः – वीक्ष्य।
(iii) आहारम् – विशाला।
(iv) महती – भोजनम्।
(v) दृष्ट्वा – यत्र तत्र।
(vi) आगच्छति – कानने।

Answer

Answer:
शब्दाः – अर्थाः
(i) वने – कानने।
(ii) इतस्ततः – यत्र तत्र।
(iii) आहारम् – भोजनम्।
(iv) महती – विशाला।
(v) दृष्ट्वा – वीक्ष्य।
(vi) आगच्छति – आयाति।


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *