MCQ Questions for Class 8 Sanskrit Chapter 1 सुभाषितानि with Answers

Practicing the Class 8 Sanskrit Chapter 1 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सुभाषितानि Class 8 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 8 Sanskrit सुभाषितानि MCQ Multiple Choice Questions with Answers PDF.

निम्नश्लोकद्वयं पठित्वा प्रश्नान् उत्तरत

(क) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री,
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य।।

Question 1.
अर्थपरस्य किम् नश्यति?
(क) यशः
(ख) धर्मः
(ग) मैत्री
(घ) राज्यं

Answer

Answer: (ख) धर्मः


Question 2.
‘नराधिपस्य’ इत्यस्य पदस्य समानार्थकं पदं किं?
(क) नृपः
(ख) राजा
(ग) राज्ञः
(घ) भूपतिः

Answer

Answer: (ग) राज्ञः


Question 3.
‘व्यसनिनः’ अस्मिन् पदे कः प्रत्ययः?
(क) नः
(ख) निनः
(ग) ङीप्
(घ) इनि

Answer

Answer: (घ) इनि


Question 4.
लुब्धस्य, नष्टक्रियस्य पिशुनस्य च किं किं नश्यन्ति?

Answer

Answer: लुब्धस्य यशः, नष्टक्रियस्य कुलं पिशुनस्य च मैत्री नश्यन्ति।


(ख) पीत्वा रसं तु कटुकं मधुरं समानं
माधुर्यमेव जनयेन्मधुमक्षिकासौ।
सन्तस्तथैव समसज्जनदुर्जनानां
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।।

Question 1.
समसज्जनदुर्जनानां वचः आकर्ण्य के मधुरसूक्तरसं सृजन्ति?
(क) दुष्टाः
(ख) सन्तः
(ग) दुर्जनाः
(घ) मक्षिकाः

Answer

Answer: (ख) सन्तः


Question 2.
‘सृजन्ति’ इति क्रियापदस्य कर्तृपदं किं?
(क) सन्तः
(ख) दुर्जनानाम्
(ग) मधुमक्षिका
(घ) वचः

Answer

Answer: (क) सन्तः


Question 3.
‘आकर्ण्य’ इत्यर्थे श्लोके किं पदं प्रयुक्त?
(क) वचः
(ख) रसं
(ग) तथैव
(घ) श्रुत्वा

Answer

Answer: (घ) श्रुत्वा


Question 4.
मधुमक्षिका कीदृशं रसं पीत्वा माधुर्यम् जनयति? .

Answer

Answer: मधुमक्षिका कटुकं मधुरं रसं पीत्वा माधुर्यम् जनयति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
सुस्वादुतोयाः नद्यः प्रवहन्ति।
(क) का
(ख) के
(ग) काः
(घ) कानि

Answer

Answer: (ग) काः


Question 2.
कृपणस्य सौख्यं नश्यति।
(क) कस्य
(ख) कस्याः
(ग) कस्मै
(घ) कस्यै

Answer

Answer: (क) कस्य


Question 3.
यो दैवमवावलम्बते।
(क) किम्
(ख) कस्य
(ग) केषाम्
(घ) कासाम्

Answer

Answer: (क) किम्


Question 4.
व्यसनिनः विद्याफलं नश्यति।
(क) काः
(ख) कस्याः
(ग) कः
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 5.
‘त्यजति’ इति क्रियापदस्य समानार्थकं किं?
(क) गृह्णाति
(ख) जहाति
(ग) धारयति
(घ) वर्धयति

Answer

Answer: (ख) जहाति


अधोलिखितं श्लोकं पठित्वा श्लोकाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

1. गुणा गुणज्ञेषु गुणा भवन्ति।
ते निर्गुणं प्राप्य भवन्ति दोषाः॥
सुस्वादुतोयाः प्रभवन्ति नद्यः।
समुद्रमासाद्य भवन्त्यपेयाः॥

Question 1.
‘ते’ इत्यस्य स्थाने संज्ञापदं किम्?
(क) नद्यः
(ख) गुणाः
(ग) दोषाः
(घ) अपेयाः

Answer

Answer: (ख) गुणाः।


Question 2.
‘अवगुणाः’ इति पदस्य समानार्थकं पदं श्लोकात् चित्वा लिखत।
(क) अपेयाः
(ख) गुणाः
(ग) दोषाः
(घ) निर्गुणाः

Answer

Answer: (ग) दोषाः।


Question 3.
‘अपेयाः’ इति पदस्य कर्तृपदं किम्?
(क) समुद्रम्
(ख) नद्यः
(ग) तोयाः
(घ) दोषाः

Answer

Answer: (ग) तोयाः।


Question 4.
गुणज्ञेषु’ इत्यस्मिन् पदे विभक्तिः का?
(क) सप्तमी
(ख) षष्ठी
(ग) पञ्चमी
(घ) चतुर्थी

Answer

Answer: (क) सप्तमी।


Question 5.
गुणाः किं प्राप्य दोषाः भवन्ति?

Answer

Answer: निर्गुणम्।


Question 6.
काः अपेयाः भवन्ति?

Answer

Answer: नद्यः।


Question 7.
किमासाद्य नद्यः अपेयाः भवन्ति?

Answer

Answer: नद्यः समुद्रम् आसाद्य अपेयाः भवन्ति।


Question 8.
गुणज्ञेषु के गुणाः भवन्ति?

Answer

Answer: गुणाः गुणज्ञेषु गुणाः भवन्ति।


2. साहित्यसङ्गीतकलाविहीनः।
साक्षात्पशुः पुच्छविषाणहीनः॥
तृणं न खादन्नपि जीवमानः।
तद्भागधेयं परमं पशूनाम्॥

Question 1.
‘खादन्नपि’ इत्यत्र सन्धिविच्छेदः विधेयः।

Answer

Answer: खादन् अपि।


Question 2.
‘जीवमानः’ इत्यस्य पर्यायशब्दं लिखत।

Answer

Answer: विषाणेन-हीन।


Question 3.
‘विषाणहीनः’ इत्यस्य विग्रहं लिखत।

Answer

Answer: जीवितः सन्।


Question 4.
पुच्छविषाणहीनः कः अस्ति?

Answer

Answer: कलाविहीनः।


Question 5.
कः तृणं न खादन्नपि जीवमानः अस्ति?

Answer

Answer: साक्षात्पशुः।


Question 6.
साक्षात् पशुः कः अस्ति?

Answer

Answer: कलाविहीनः जनः साक्षात् पशुः अस्ति।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावः स्पष्टो भवेत्

(क) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री-
अस्य भावः अस्ति यद् लोभिनः ……………………. नष्टं ……………………….. , पिशुनस्य ……………….. नष्टा भवति।

Answer

Answer:
लोभिनः यशः नष्टं भवति, पिशुनस्य मित्रता नष्टा भवति।


(ख) स्त्रियां रोचमानायां सर्वं तद् रोचते कुलम्
अस्य भावः अस्ति यत् स्त्रियां ……………… सर्वं तद् ………………. ……………….।

Answer

Answer:
स्त्रियां प्रसन्नायां सर्वं तद् कुलं शोभते


अधोलिखितयोःसूक्तयोः शुद्धं अर्थं चित्वा लिखत।

(क) कृपणस्य सौख्यम्।
(i) कृपणः सुखी भवति।
(ii) कृपणस्य सुखं नश्यति।
(iii) लोभी सुखी भवति।
(iv) कृपणः सुन्दरः भवति।

Answer

Answer: (ii) कृपणस्य सुखं नश्यति।


(ख) अर्थपरस्य धर्मः।
(i) स्वार्थी धर्मं जानाति।
(ii) स्वार्थी धर्मं नाशयति।
(iii) अर्थी धर्मं प्राप्नोति।
(iv) अर्थपरायणस्य जनस्य धर्मः नश्यति।

Answer

Answer: (iv) अर्थपरायणस्य जनस्य धर्म: नश्यति।


अधोलिखितेषु भावकथनेषु यत् कथनं शुद्धं तत् (✓) चिह्नन, यच्चाऽशुद्धं तत् (x) चिह्नन अङ्कयत।

(क) नद्यः समुद्रमासाद्य भवन्त्यपेयाः।
(i) नद्यः समुद्रमासाद्य पेयाः भवन्ति।
(ii) नद्यः सागरं प्राप्य अपेयाः भवन्ति।

Answer

Answer:
(i) नद्यः समुद्रमासाद्य पेयाः भवन्ति। (x)
(ii) नद्यः सागरं प्राप्य अपेयाः भवन्ति। (✓)


(ख) लुब्धस्य नश्यति यशः।
(i) लोभिनः सम्मानो नष्टो भवति।
(ii) लुब्धस्य धनं वर्धते।

Answer

Answer:
(i) लोभिन: सम्मानो नष्टो भवति। (✓)
(ii) लुब्धस्य धनं वर्धते। (x)


अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

(क) लुब्धस्य यशः नश्यति।
(i) कः
(ii) किम्
(iii) के
(iv) कम्

Answer

Answer: (ii) किम्


(ख) गुणाः निर्गुणं प्राप्य भवन्ति दोषाः।
(i) कः
(ii) का
(iii) के
(iv) काः

Answer

Answer: (iii) के


(ग) अर्थपरस्य धर्मः नश्यति।
(i) कस्य
(ii) कस्याः
(iii) केषाम्
(iv) के

Answer

Answer: (i) कस्य


अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अर्थैः सह मेलनं क्रियताम्

शब्दाः – अर्थाः
(i) दोषाः – जीवितः
(ii) आसाद्य – रहितः
(iii) विहीनः – शृङ्गः
(iv) विषाणः – प्राप्य
(v) जीवमानः – लोभिनः
(vi) लुब्धस्य – अवगुणाः।

Answer

Answer:
शब्दाः – अर्थाः
(i) दोषाः – अवगुणाः
(ii) आसाद्य – प्राप्य
(iii) विहीनः – रहितः
(iv) विषाणः – शृङ्गः
(v) जीवमानः – जीवितः
(vi) लुब्धस्य – लोभिनः।


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *