MCQ Questions for Class 7 Sanskrit Grammar अपठित-अवबोधनम् with Answers
(1)
अधोलिखितम् अनुबन्धम् पठित्वा तदाधारितानाम् प्रश्नानाम् उत्तराणि लिखतयुवकः अचिन्तयत्-अयं घटः सक्तुभिः पूर्णः अस्ति। अनेन दुभिः शतं रूप्यकाणि भविष्यन्ति। तैः अहम् अजाद्वयं क्रेष्यामि। शनैः शनैः अजानां समूहः भविष्यति। तेन अहम् क्रमशः गाः, महिषीः, वडवाः च क्रेष्यामि। तेन बहुसुवर्णं प्राप्स्यामि।
Question 1.
‘भविष्यन्ति’ इति पदे कः लकारः?
(क) लृट्
(ख) लट
(ग) लोट
(घ) लङ्
Answer
Answer: (क) लृट् लकारः
Question 2.
‘सक्तुभिः’ इति पदे का विभक्तिः?
(क) चतुर्थी
(ख) तृतीया
(ग) प्रथमा
(घ) षष्ठी
Answer
Answer: (ख) तृतीया।
Question 3.
कः अचिन्तयत्?
Answer
Answer: युवकः
Question 4.
घटः कैः पूर्णः अस्ति?
Answer
Answer: सक्तुभिः
Question 5.
शनैः शनैः कः भविष्यति?
Answer
Answer: शनैः शनैः अजानां समूहः भविष्यति।
Question 6.
युवकः रूप्यकैः किं क्रेष्यति?
Answer
Answer: युवक: रूप्यकैः अजाद्वयं क्रेष्यति।
Question 7.
अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
Answer
Answer: ‘लोभी युवकः’।
(2)
एकदा अकस्मात् चन्द्रशेखरः आंग्लशासकैः आक्रान्तः। सः निर्भयः आसीत्। सः एकाकी बहून् सैनिकान् हतवान्। अन्ते एका गोलिका अवशिष्टा। सः तया स्वयमेव आत्मानं वीरगति प्रापयत्।
Question 1.
‘आसीत्’ इति पदे कः लकारः?
(क) लङ
(ख) लट
(ग) लोट
(घ) लृट्
Answer
Answer: (क) लङ् लकारः
Question 2.
‘सैनिकान्’ इति पदे का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) द्वितीया
(घ) षष्ठी
Answer
Answer: (ग) द्वितीया।
Question 3.
चन्द्रशेखरः कैः आक्रान्तः?
Answer
Answer: आंग्लशासकैः
Question 4.
सः कति सैनिकान् हतवान्?
Answer
Answer: बहून्
Question 5.
चन्द्रशेखरः कथं वीरगतिं प्रापयत्?
Answer
Answer: अन्ते एका गोलिका अवशिष्टा, तया सः आत्मानं वीरगति प्रापयत्।
Question 6.
चन्द्रशेखरः कीदृशः आसीत्?
Answer
Answer: चन्द्रशेखरः निर्भयः आसीत्।
Question 7.
अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
Answer
Answer: ‘वीरः चन्द्रशेखरः।
(3)
पुरा बोधिसत्त्वः वणिक्पुत्रः बभूव। सः नदीतटम् अगच्छत्। सः एकं धीवरम् अपश्यत्। धीवरस्य समीपे एक: मृत्तिकायाः घटः आसीत्। धीवरः जालेन मत्स्यान् निगृह्य घटे निक्षिपति स्म। तैः सः स्वकुटुम्बस्य पालनं करोति स्म।
Question 1.
‘अपश्यत्’ इति पदे कः धातुः?
(क) दर्श
(ख) पश्य्
(ग) दृश्
(घ) द्रश्
Answer
Answer: (ग) दृश्
Question 2.
मृत्तिकायाः’ इति पदे का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) चतुर्थी
(घ) प्रथमा
Answer
Answer: (क) षष्ठी।
Question 3.
बोधिसत्त्वः कुत्र अगच्छत्?
Answer
Answer: नदीतटम्
Question 4.
बोधिसत्त्वः किम् अपश्यत्?
Answer
Answer: धीवरम्
Question 5.
धीवरः कैः कुटुम्बपालनम् अकरोत्?
Answer
Answer: धीवरः मत्स्यान् निगृह्य तैः स्वकुटुम्बस्य पालनं अकरोत्।
Question 6.
धीवरः घटे कान् निक्षिपति स्म?
Answer
Answer: धीवरः घटे मत्स्यान् निक्षिपति स्म।
Question 7.
अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
Answer
Answer: ‘बोधिसत्त्वः’।
(4)
चन्द्रः सूर्यः इव दृश्यते। परम् चन्द्रः सूर्यवत् विशालः न अस्ति। अयं तु पृथिव्याः अपि लघुः अस्ति। चन्द्रमाः एव धरायाः सर्वेषु नक्षत्रेषु समीपवर्ती अस्ति। अयं पृथिवीं प्रति अष्टाविंशतितमे दिवसे परिक्रमा पूरयति।
Question 1.
‘लघुः’ इति पदं कस्य विशेषणम् अस्ति?
(क) चन्द्रस्य
(ख) सूर्यस्य
(ग) पृथिव्याः
(घ) नक्षत्रस्य
Answer
Answer: (क) चन्द्रस्य
Question 2.
‘दिवसे’ इति पदे का विभक्तिः?
(क) पञ्चमी
(ख) प्रथमा
(ग) सप्तमी
(घ) तृतीया
Answer
Answer: (ग) सप्तमी।
Question 3.
चन्द्रः कः इव दृश्यते?
Answer
Answer: सूर्यः
Question 4.
चन्द्रः किंवत् विशालः न अस्ति?
Answer
Answer: सूर्यवत्
Question 5.
चन्द्रः पृथिव्याः परिक्रमा कतमे दिवसे पूरयति?
Answer
Answer: चन्द्रः पृथिव्याः परिक्रमा अष्टाविंशतितमे दिवसे पूरयति।
Question 6.
चन्द्रः कस्याः समीपवर्ती अस्ति?
Answer
Answer: चन्द्रः धरायाः समीपवर्ती अस्ति।
Question 7.
अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
Answer
Answer: ‘चन्द्रः’।
(5)
स्वास्थ्यलाभाय प्रतिदिनं व्यायामः करणीयः। यः व्यायाम करोति, सः आपत्काले साहसं न त्यजति। रक्तसञ्चारः अपि सम्यग् भवति। इन्द्रियाणि स्वस्थानि भवन्ति। जठराग्निः दीप्तः भवति। उदरं न परिवर्धते। मस्तिष्कम् उर्वरं भवति।
Question 1.
‘यः व्यायाम करोति’ इत्यत्र क्रियापदं लिखत।
(क) यः
(ख) व्यायामम्
(ग) करोति
(घ) शून्यम्
Answer
Answer: (ग) करोति
Question 2.
लाभः’ इत्यस्य विलोमपदं लिखत।
(क) हानिः
(ख) व्ययः
(ग) हर्षः
(घ) मृत्युः
Answer
Answer: (क) हानिः
Question 3.
स्वास्थ्यलाभाय किं करणीयम्?
Answer
Answer: व्यायामः
Question 4.
रक्तसञ्चारः केन सम्यग् भवति?
Answer
Answer: व्यायामेन
Question 5.
केन मस्तिष्कम् उर्वरं भवति?
Answer
Answer: व्यायामेन मस्तिष्कम् उर्वरं भवति।
Question 6.
व्यायामेन किं न परिवर्धते?
Answer
Answer: व्यायामेन उदरं न परिवर्धते।
Question 7.
अस्य गद्यांशस्य शीर्षकं लिखत।
Answer
Answer: ‘व्यायामः’।
0 Comments