MCQ Questions for Class 10 Sanskrit Chapter 6 सुभाषितानि with Answers

Practicing the Class 10 Sanskrit Chapter 6 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सुभाषितानि Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit सुभाषितानि MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितश्लोकान् पठित्वा प्रश्नान् उत्तरत

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

Question 1.
‘मित्रम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) रिपुः
(ख) कृत्वा
(ग) अवसीदति
(घ) नावसीदति

Answer

Answer: (क) रिपुः


Question 2.
‘यं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) बन्धुः
(ख) रिपुः
(ग) उद्यम
(घ) उद्यमाय

Answer

Answer: (घ) उद्यमाय


Question 3.
‘दुःखम् अनुभवति’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) नावसीदति
(ख) अवसीदति
(ग) सीदति
(घ) वसीदति

Answer

Answer: (ख) अवसीदति


Question 4.
‘महान्’ इति पदस्य विशेष्यपदं किम्?
(क) बन्धुः
(ख) रिपुः
(ग) आलस्यं
(घ) उद्यम

Answer

Answer: (ख) रिपुः


Question 5.
मनुष्याणाम् शरीरस्थो महान् रिपुः कः?

Answer

Answer: आलस्यं


Question 6.
केन समः बन्धुः न अस्ति?

Answer

Answer: उद्यमेन


Question 7.
कम् कृत्वा नरः न अवसीदति?

Answer

Answer: उद्यम/परिश्रमम् कृत्वा नरः न अवसीदति।


गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥

Question 1.
‘काकः’ इति पदस्य समानार्थकम् पदं किम्?
(क) मूषकः
(ख) करी
(ग) वायसः
(घ) पिक:

Answer

Answer: (ग) वायसः


Question 2.
‘बली’ इति पदस्य विलोमपदं किम्?
(क) निर्बलः
(ख) निर्गुणः
(ग) करी
(घ) बलम्

Answer

Answer: (क) निर्बलः


Question 3.
‘गुणी गुणं वेत्ति’ अत्र कर्तृपदं किम्?
(क) गुणं
(ख) गुणी
(ग) वेत्ति
(घ) किमपि न

Answer

Answer: (ख) गुणी


Question 4.
‘सिंहस्य बलं ……….. वेत्ति’ अत्र रिक्तपूर्तिः कुरुत
(क) करी
(ख) च
(ग) मूषकः
(घ) वायसः

Answer

Answer: (क) करी


Question 5.
निर्गुणः किम् न वेत्ति?

Answer

Answer: गुणं


Question 6.
वसन्तस्य गुणं कः वेत्ति?

Answer

Answer: पिकः


Question 7.
सिंहस्य बलं कः वेत्ति?

Answer

Answer: सिंहस्य बलं करी/गजः वेत्ति।


निमित्तमुद्दिश्य हि यः प्रकुष्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति॥

Question 1.
(i) ‘प्रसीदति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) यः
(ख) सः
(ग) नरः
(घ) मनः

Answer

Answer: (ख) सः


Question 2.
‘आरम्भे’ इति पदस्य विलोमपदं किम्?
(क) निमित्तम्
(ख) उद्दिश्य
(ग) अपगमे
(घ) तस्यापगमे

Answer

Answer: (ग) अपगमे


Question 3.
‘निश्चितम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) निमित्तम्
(ख) अकारण
(ग) जनस्तं
(घ) ध्रुवम्

Answer

Answer: (घ) ध्रुवम्


Question 4.
‘तस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) निमित्तम्
(ख) निमित्तस्य
(ग) निमित्ताय
(घ) निमित्तः

Answer

Answer: (ख) निमित्तस्य


Question 5.
नरः किम् उद्दिश्य प्रकुप्यति?

Answer

Answer: निमित्तम्


Question 6.
कस्य अपगमे नरः प्रसीदति?

Answer

Answer: सनिमित्तस्य


Question 7.
कीदृशम् नरं जनः न परितोषयिष्यति?

Answer

Answer: यस्य मनः अकारणद्वेषि अस्ति तम् नरं जनः न परितोषयिष्यति।


क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम्॥

Question 1.
‘अग्निः’ इति पदस्य पर्यायः कः?
(क) काष्ठः
(ख) वह्निः
(ग) देहः
(घ) दहते

Answer

Answer: (ख) वह्निः


Question 2.
‘शत्रुः’ इति पदस्य विशेषणपदं किम्?
(क) प्रथमः
(ख) देहस्थितः
(ग) क्रोधः
(घ) नराणाम्

Answer

Answer: (क) प्रथमः


Question 3.
‘सः एव वह्निः दहते शरीरम्’ अत्र क्रियापदं किम्?
(क) सः
(ख) एव
(ग) वह्निः
(घ) दहते

Answer

Answer: (घ) दहते


Question 4.
‘यथा काष्ठगतः ………….. वह्निः काष्ठम् दहते।’ अत्र रिक्तस्थान पूर्तिः कुरुत
(क) हि
(ख) यथा स्थितः
(ग) स्थितः
(घ) शरीरम्

Answer

Answer: (ग) स्थितः


Question 5.
क्रोधः कस्य नाशं करोति?

Answer

Answer: देहस्य


Question 6.
क्रोधः केषाम् प्रथमः शत्रुः अस्ति?

Answer

Answer: नराणाम्


Question 7.
शरीरस्थः क्रोधः शरीरं कथम् दहते?

Answer

Answer: शरीरस्थः क्रोधः काष्ठगतः स्थितः वह्निः इव शरीरम् दहते।


अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

Question 1.
‘सुलभः’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) दुर्लभः
(ख) अयोग्यः
(ग) अमन्त्रम्
(घ) मूलम्

Answer

Answer: (क) दुर्लभः


Question 2.
‘पुरुषः’ इति पदस्य विशेषणपदं किम्?
(क) दुर्लभः
(ख) योजकः
(ग) अयोग्यः
(घ) नास्ति

Answer

Answer: (ग) अयोग्यः


Question 3.
‘नास्ति मूलमनौषधम् अत्र क्रियापदं किम्?
(क) अस्ति
(ख) ना
(ग) नास्ति
(घ) मूलम्

Answer

Answer: (क) अस्ति


Question 4.
‘अधोभागम्’ इत्यर्थे किम् पद प्रयुक्तम्?
(क) अमन्त्रम्
(ख) मूलम्
(ग) अक्षरं
(घ) अनौषधम्

Answer

Answer: (ख) मूलम्


Question 5.
अनौषधम् किम् नास्ति?

Answer

Answer: मूलम्


Question 6.
अक्षरं कीदृशं नास्ति?

Answer

Answer: अमन्त्रम्


Question 7.
अयोग्यः कः नास्ति?

Answer

Answer: अयोग्यः पुरुषः नास्ति।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुतउत्तराणि

(i) मृगाः मृगैः सह अनुव्रजन्ति।
(ii) गुणी गुणं जानाति।
(iii) पशुः अपि उदीरितं अर्थं गृह्णाति।
(iv) अश्वः धावने वीरः भवति।
(v) महताम् सर्वदा एव एकरूपता भवति।
(vi) आलस्यं मनुष्याणाम् शरीरस्थः महान् रिपुः अस्ति।
(vii) वसन्तस्य गुणं पिकः जानाति।
(viii) सविता अस्तमये रक्तः भवति।

Answer

Answer:
(i) मृगाः कैः सह अनुव्रजन्ति?
(ii) कः गुणं जानाति?
(iii) पशु अपि कीदृशं अर्थं गृह्णाति?
(iv) अश्वः कस्मिन् वीरः भवति?
(v) केषाम् सर्वदा एव एकरूपता भवति?
(vi) आलस्यं केषाम् शरीरस्थः महान् रिपुः अस्ति?
(vii) कस्य गुणं पिकः जानाति?
(viii) सविता कदा रक्तः भवति?


अधोलिखितश्लोकानाम् अन्वयेषु रिक्तस्थानपूर्तिं कुरुत

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

अन्वयः- मनुष्याणाम् शरीरस्थ: (i) ……………….. रिपुः आलस्यम्। (ii) ………………… बन्धुः न (iii) ………….. यं कृत्वा (नर:) (iv) …………… अवसीदति।

Answer

Answer:
मनुष्याणाम् शरीरस्थ: (i) महान् रिपुः आलस्यम् (ii) उद्यमसमः बन्धुः न (iii) अस्ति यं कृत्वा (नरः) (iv) अवसीदति।


निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति।।

अन्वयः- यः निमित्तम् (i) ………………. प्रकुप्यति, सः (ii) ………………. अपगमे (iii) ……………… प्रसीदति, वै यस्य मनः तु अकारणद्वेषि तं (iv) …………. कथं परितोषयिष्यति।

Answer

Answer:
यः निमित्तम् (i) उद्दिश्य प्रकुप्यति, सः (ii) तस्य अपगमे (iii) ध्रुवं प्रसीदति, वै यस्य मनः तु अकारणद्वेषि तं (iv) जनं कथं परितोषयिष्यति।


उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः।।

अन्वयः- पशुना अपि उदीरितो (i) …………….. गृह्यते, हयाः नागा: च (ii) …………… वहन्ति, पण्डितः (iii) ……………… अनुक्तम् (iv) ………… ऊहति बुद्धयः परेङ्गितज्ञानफलाः भवन्ति।

Answer

Answer:
पशुना अपि उदीरितो (i) अर्थः गृह्यते, हयाः नागाः च (ii) बोधिता: वहन्ति, पण्डितः (iii) जनः अनुक्तम् (iv) अपि ऊहति बुद्धयः परेङ्गितज्ञानफलाः भवन्ति।


अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

अन्वयः- अमन्त्रम् (i) …………………. न अस्ति, (ii) …………….. मूलं नास्ति, अयोग्य पुरुषः (iii) ……………… अस्ति (iv) ……………. योजकः दुर्लभः।

Answer

Answer:
अमन्त्रम् (i) अक्षरम् न अस्ति, (ii) अनौषधम् मूलं नास्ति, अयोग्यः पुरुषः (iii) नः अस्ति, (iv) तत्र योजकः दुर्लभः।


विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।

अन्वयः- विचित्र (i) …………………. खलु किञ्चित् (ii) …………………. नास्ति, अश्व: (iii) …………….. धावने वीरः (तर्हि) (iv) ……………… वहने खरः (वीरः) अस्ति।

Answer

Answer:
विचित्रे (i) संसारे खलु किञ्चित् (ii) निरर्थकम् नास्ति, अश्वः (iii) चेत् धावने वीरः (तर्हि) (iv) भारस्य वहने खरः (वीरः) अस्ति।


अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं सः तस्यापगमे प्रसीदति।

भावार्थ:- नरस्य क्रोधस्य किमपि (i) …………….. भवति यदि तस्य कारणस्य एव (ii) ………………. भवति तदैव (iii) ………………… स्वयमेव शाम्यति (iv) ……………. च प्रसीदति।
मञ्जूषा- भूत्वा, निवारणम्, क्रोधः, कारणं

Answer

Answer: (i) कारणं, (ii) निवारणम्, (iii) क्रोधः, (iv) भूत्वा


परेङ्गितज्ञानफला हि बुद्धयः।

भावार्थः- उक्तः अर्थ तु (i) ………………… अपि प्राप्यते परम् (ii) ………………… सः एव कथ्यते यः (iii) ………………. अपि तथ्य (iv) ……………… एव अवगच्छति
मञ्जूषा- अनुक्तम्, विद्वान्, संकेतेन, पशुना

Answer

Answer: (i) पशुना, (ii) विद्वान्, (iii) अनुक्तम्, (iv) संकेतेन


समान-शील-व्यसनेषु सख्यम्।

भावार्थ:- अस्य भावः अस्ति यत् मनुष्य (i) ……………….. भवति स्वस्वभावानुसारेण (ii) ………………… जनैः (iii) ……………… तस्य (iv) …………….. भवति।।
मञ्जूषा- तादृशैः, यादृशः, मित्रता, सह

Answer

Answer: अयोग्यः (i) यादृशः, (ii) तादृशैः, (iii) सह, (iv) मित्रता


विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।

भावार्थ:- निश्चयमेव अयं (i) ……………….. विचित्रः वर्तते यत्र किञ्चित् अपि (ii) ……………… न अस्ति। यदि (iii) …………….. धावने श्रेष्ठः तर्हि गर्दभः भारवहने। यथासमयम् सर्वेषामेव (iv) …………… विद्यते।
मञ्जूषा- महत्त्वम्, संसारः, निरर्थकम्, अश्वः

Answer

Answer: (i) संसारः, (ii) निरर्थकम्, (iii) अश्वः, (iv) महत्त्वम्


अधोलिखितवाक्येषु रेखाङ्कितपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question 1.
उद्यमं कृत्वा नरः न अवसीदति
(क) दु:खम् अनुभवति
(ख) करोति
(ग) अनुभवति
(घ) अनुकरोति

Answer

Answer: (क) दु:खम् अनुभवति


Question 2.
सः तस्य अपगमे प्रसीदति।
(क) समाप्ते
(ख) आरम्भे
(ग) मध्ये
(घ) उपस्थिते

Answer

Answer: (क) समाप्ते


Question 3.
सिंहस्य बलं करी वेत्ति।
(क) कर्म
(ख) गजः
(ग) उष्ट्रः
(घ) मण्डूकः

Answer

Answer: (ख) गजः


Question 4.
पण्डितः अनुक्तम् अपि ऊहति
(क) निर्धारयति
(ख) कथयति
(ग) वादयति
(घ) वदति

Answer

Answer: (क) निर्धारयति


Question 5.
यदि दैवात् फलं नास्ति छाया केन निवार्यते?
(क) ईश्वरस्य
(ख) ईश्वरात्
(ग) देवात्
(घ) भाग्यात्

Answer

Answer: (घ) भाग्यात्


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

गुणं, सार्थकं, निमित्तम्, ध्रुवं, योजकः
पदानि – विलोमपदानि
(i) निर्गुणं – …………..
(ii) निरर्थकम् – …………….
(iii) अनिश्चितम् – ……………
(iv) अकारणम् – ……………….
(v) विभाजकः – ……………….

Answer

Answer:
पदानि – विलोमपदानि
(i) निर्गुणं – गुणम्
(ii) निरर्थकम् – सार्थकम्
(iii) अनिश्चितम् – ध्रुवम्
(iv) अकारणम् – निमित्तम्
(v) विभाजकः – योजक:


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *