MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers

Practicing the Class 10 Sanskrit Chapter 2 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of बुद्धिर्बलवती सदा Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit बुद्धिर्बलवती सदा MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितगद्यांशान् श्लोकान् च पठित्वा निर्देशानुसार प्रश्नान् उत्तरत

अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ात् पुत्रौ चपेटया प्रहृत्य जगाद-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः ? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।” इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।

Question 1.
‘ददर्श’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) एकं
(ख) व्याघ्रं
(ग) मार्गे
(घ) सा

Answer

Answer: (घ) सा


Question 2.
तस्य भार्या’ अत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) राजपुत्रः
(ख) राजपुत्राय
(ग) भार्या
(घ) भार्याय

Answer

Answer: (ख) राजपुत्राय


Question 3.
‘आगच्छन्तं’ इति पदस्य विशेषणपदं किम्?
(क) व्याघ्रम्
(ख) पुत्री
(ग) सा
(घ) चपेटया

Answer

Answer: (क) व्याघ्रम्


Question 4.
‘वने’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) गहन
(ख) कानने
(ग) गहनकानने
(घ) मार्गे

Answer

Answer: (ख) कानने


Question 5.
राजसिंहस्य भार्या कुत्र गता?

Answer

Answer: पितुर्गृहम्


Question 6.
राजपुत्रस्य अभिधानम् किम् आसीत्?

Answer

Answer: राजसिंहः


Question 7.
आगच्छन्तं व्याघ्रं दृष्ट्वा भार्या किम् अकरोत्?

Answer

Answer: आगच्छन्तम् व्याघ्रम् दृष्ट्वा घाष्ात् पुत्रौ चपेटया प्रहृत्य उक्तवती-“कथम् एकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयम् एकः तावत् विभज्य भुज्यताम्। पश्चात् अन्यो द्वितीयः कश्चिल्लक्ष्यते।”


निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्॥

Question 1.
‘मुच्यते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अन्योऽपि
(ख) बुद्धिमान्
(ग) महतो
(घ) भयात्

Answer

Answer: (ख) बुद्धिमान्


Question 2.
‘भामिनी’ इति पदस्य कः अर्थ:?
(क) रूपवती स्त्री
(ख) कन्या
(ग) राजकुमारी
(घ) वृद्धा

Answer

Answer: (क) रूपवती स्त्री


Question 3.
‘मूर्खः’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) अन्यः
(ख) भामिनी
(ग) बुद्धिमान्
(घ) निजबुद्ध्या

Answer

Answer: (ग) बुद्धिमान्


Question 4.
‘भयात्’ इति पदस्य विशेषणपदं किम्?
(क) सा
(ख) अन्यः
(ग) महतो
(घ) लोके

Answer

Answer: (ग) महतो


Question 5.
भामिनी व्याघ्रस्य भयात् कथम् विमुक्ता?

Answer

Answer: निजबुद्ध्या


Question 6.
का बुद्धिमती आसीत्?

Answer

Answer: भामिनी


Question 7.
लोके महतो भयात् कः मुच्यते?

Answer

Answer: लोके महतो भयात् बुद्धिमान् मुच्यते।


व्याघ्रः – गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
शृगालः – व्याघ्र! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि?
व्याघ्रः – प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।
जम्बकः – स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्। व्याघ्र! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति।

Question 1.
‘त्वया अहं हन्तव्यः’ अत्र ‘त्वया’ इति सर्वनामपदम् कस्य कृते प्रयुक्तम्?
(क) व्याघ्रस्य
(ख) व्याघ्राय
(ग) जम्बुकाय
(घ) जम्बुकस्य

Answer

Answer: (क) व्याघ्रस्य


Question 2.
‘भयाकुलं’ इति पदस्य विशेष्यपदं किम्?
(क) शृगालः
(ख) कश्चित्
(ग) भवान्
(घ) व्याघ्रम्

Answer

Answer: (घ) व्याघ्रम्


Question 3.
‘पलायितः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भवान्
(ख) कुतः
(ग) भयात्
(घ) व्याघ्रः

Answer

Answer: (क) भवान्


Question 4.
‘भक्षयितुम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) हन्तुम्
(ख) अत्तुम्
(ग) हन्तव्यः
(घ) आवेदितम्

Answer

Answer: (ख) अत्तुम्


Question 5.
गृहीतकरजीवितः कः पलायितः?

Answer

Answer: व्याघ्रः


Question 6.
व्याघ्रः जम्बुकम् कुत्र गन्तुम् अकथयत्?

Answer

Answer: गूढप्रदेशम्


Question 7.
व्याघ्रन किम् कुर्वन्ती सा दृष्टा?

Answer

Answer: व्याघ्रन सा आत्मपुत्रौ एकैकशः व्याघ्रम् अत्तुम् (खादितुम्) कलहायमानौ चपेटया प्रहरन्ती दृष्टा।


व्याघ्रः – शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
जम्बुकः – यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। स व्याघ्रः तथाकृत्वा काननं ययौ। शृगालेन सहितं पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच

Question 1.
‘यासि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) जम्बुक:
(ख) व्याघ्रः
(ग) त्वं
(घ) माम्

Answer

Answer: (ग) त्वं


Question 2.
‘समयः’ इति पदस्य समानार्थकम् पदं किम्?
(क) वेला
(ख) अवेला
(ग) सत्वरं
(घ) पुनः

Answer

Answer: (क) वेला


Question 3.
‘तर्हि माम् निजगले …..।’ अस्मिन् वाक्ये ‘माम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जम्बुकः
(ख) व्याघ्रः
(ग) जम्बुकाय
(घ) व्याघ्राय

Answer

Answer: (ग) जम्बुकाय


Question 4.
‘बद्ध्वा’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) धूर्ता
(ख) मुक्त्वा
(ग) कृत्वा
(घ) दृष्ट्वा

Answer

Answer: (ख) मुक्त्वा


Question 5.
व्याघ्रः केन सह काननं ययौ?

Answer

Answer: शृगालेन


Question 6.
प्रत्युत्पन्नमतिः का आसीत्?

Answer

Answer: भामिनी/राजपुत्रस्य भार्या


Question 7.
पुनरायान्तं व्याघ्रं दृष्ट्वा बुद्धिमती किम् अचिन्तयत्?

Answer

Answer: पुनरायान्तं व्याघ्रं दृष्ट्वा बुद्धिमती अचिन्तयत् यत् जम्बुककृतोत्साहाद् व्याघ्रात् कथम् मुच्यताम्।


अधोलिखितकथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्उत्तराणि

(i) राजपुत्रस्य भार्या बुद्धिमती आसीत्।
(ii) मार्गे गहनकानने बुद्धिमती एकं व्याघ्रं ददर्श।
(iii) भयाकुलं व्याघ्रं दृष्ट्वा शृगालः अहसत्।
(iv) शृगालेन सह व्याघ्रः पुनः आयाति स्म।
(v) बुद्धिमती व्याघ्रस्य भयात् मुक्ता अभवत्।
(vi) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।

Answer

Answer:
(i) कस्य भार्या बुद्धिमती आसीत्?
(ii) कुत्र बुद्धिमती एकं व्याघ्रं ददर्श?
(iii) कीदृशं व्याघ्रं दृष्ट्वा शृगालः अहसत्?
(iv) केन सह व्याघ्रः पुनः आयाति स्म?
(v) बुद्धिमती कस्य भयात् मुक्ता अभवत्?
(vi) कीदृशी सा शृगालं आक्षिपन्ती उवाच?


अधोलिखितश्लोकयोः अन्वययोः समुचितपदैः पूरयत

(1) निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमॉल्लोके मुच्यते महतो भयात्।।

अन्वयः – सा भामिनी (i) ……………………….. व्याघ्रस्य (ii) …………………………. विमुक्ता।
लोके अन्यः (iii) …………….. बुद्धिमान् (iv) ………………… भयात् मुच्यते।

Answer

Answer:
सा भामिनी निजबुद्ध्या व्याघ्रस्य भयाद् विमुक्ता।
लोके अन्यः अपि बुद्धिमान् महतो भयात् मुच्यते।


(2) इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा।
व्याघ्रोऽपि सहसा नष्टः गलबद्ध शृगालकः।।

अन्वयः- इति (i) …………………….. भयङ्करा व्याघ्रमारी (ii) ……………………… धाविता।
गलबद्ध शृगालक: (iii) ……………………….. अपि (iv) ………………. नष्टः।

Answer

Answer:
इति उक्त्वा भयङ्करा व्याघ्रमारी तूर्णं धाविता।
गलबद्ध शृगालकः व्याघ्रः अपि सहसा नष्टः।।


अधोलिखितकथनयोः समुचितं भावं प्रदत्तविकल्पेभ्यः चित्वा लिखत.

(1) ‘अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्।

भावार्थ:- अस्य कथनस्य भावः अस्ति यत् सा (i) ………. निजबुद्ध्या (ii) ……….. भयात् विमुक्ता अभवत् एवमेव बुद्धिमान् (iii) ……….. महतो (iv) ………… अपि मुच्यते।
मञ्जूषा- भयात्, भामिनी, व्याघ्रस्य, जनः

Answer

Answer: (i) भामिनी, (ii) व्याघ्रस्य, (iii) जनः, (iv) भयात्


(2) ‘बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।’

भावार्थ:- अस्य कथनस्य भावः अस्ति यत् बुद्धिः यस्य (i) ……………. तस्य। नरः (ii) ……………. सर्वसमस्यानाम् समाधान (iii) …………….. शक्नोति सर्वेषु कार्येषु च (iv) …………….. सफलः भवति।
मञ्जूषा- सर्वदा, कर्तुम्, बलं, स्वबुद्ध्या

Answer

Answer: (i) बलं, (ii) स्वबुद्ध्या, (iii) कर्तुम्, (iv) सर्वदा


अधोलिखितानि वाक्यानि कथाक्रमेण संयोज्य लिखत

(i) “कथमेकैकशो व्याघ्रभक्षणाय कहलं कुरुथः?”
(ii) तत्र राजसिंहः नाम राजपुत्रस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(iii) मार्गे गहनकानने सा एकं व्याघ्रं ददर्श।
(iv) इयम् काचित् व्याघ्रमारी इति मत्वा व्याघ्रः भयाकुलचित्तो नष्टः।
(v) धूर्तः शृगालः हसन् आह-“भवान् कुतः भयात् पलायित?”
(vi) बुद्धिमती व्याघ्रजाद् भयात् पुनः मुक्ता अभवत्।
(vii) यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
(viii) बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्।

Answer

Answer:
(i) तत्र राजसिंहः नाम राजपुत्रस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(ii) मार्गे गहनकानने सा एकं व्याघ्रं ददर्श।
(iii) “कथमेकैकशो व्याघ्रभक्षणाय कलह कुरुथ:”?
(iv) इयम् काचित् व्याघ्रमारी इति मत्वा व्याघ्रः भयाकुलचित्तो नष्टः।
(v) धूर्तः शृगालः हसन् आह-” भवान् कुतः भयात् पलायित:”?
(vi) यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
(vii) बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्।
(viii) बुद्धिमती व्याघ्रजाद् भयात् पुनः मुक्ता अभवत्।


रेखाङ्कितपदानाम् प्रसंगानुसारम् शुद्धम् अर्थम् चित्वा लिखत

Question 1.
व्याघ्रः तथाकृत्वा काननं ययौ।
(क) अगच्छत्
(ख) अभ्रमत्
(ग) अधावत्
(घ) अगच्छताम्

Answer

Answer: (क) अगच्छत्


Question 2.
गहनकानने सा एकं व्याघ्र ददर्श।
(क) ददसि
(ख) ददाति
(ग) ददति
(घ) अपश्यत्

Answer

Answer: (घ) अपश्यत्


Question 3.
सा पुत्रौ चपेटया प्रहृत्य जगाद।
(क) उक्तवती
(ख) जिघ्रति
(ग) जहाति
(घ) आगच्छत्

Answer

Answer: (क) उक्तवती


Question 4.
गच्छ, गच्छ जम्बुक!
(क) सिंहः
(ख) कटुफलम्
(ग) उष्ट्रः
(घ) शृगाल

Answer

Answer: (घ) शृगाल


Question 5.
तदा वेला अपि अवेला स्यात्।।
(क) समयः
(ख) पुष्पम्
(ग) फलं
(घ) बालिका

Answer

Answer: (क) समयः


Question 6.
बुद्धिमती चपेटया पुत्रौ प्रहृतवती।।
(क) चपलया
(ख) चञ्चलया
(ग) चालिता
(घ) करप्रहारेण

Answer

Answer: (घ) करप्रहारेण


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे तेषां विलोमपदानि, तयोः संयोगं कुरुत

“क’ स्तम्भः – ‘ख’ स्तम्भः
(i) पुरा – पूर्व
(ii) तूर्णम् – अगूढ़
(iii) प्रत्यक्षं – अधुना
(iv) गूढ – परोक्षम्
(v) पश्चात् – मन्दम्

Answer

Answer:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(i) पुरा – अधुना
(ii) तूर्णम् – मन्दम्
(iii) प्रत्यक्षं – परोक्षम्
(iv) गूढ – अगूढ़
(v) पश्चात् – पूर्व


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *