MCQ Questions for Class 9 Sanskrit Chapter 9 सिकतासेतुः with Answers

Practicing the Class 9 Sanskrit Chapter 9 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सिकतासेतुः Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit सिकतासेतुः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितनाटयांशान् श्लोकान् च पठित्वा प्रश्नान् उत्तरत

(क) (ततः प्रविशति तपस्यारतः तपोदत्तः)
तपोदत्तः – अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
तस्मात् सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्। (ऊर्ध्वं निःश्वस्य)
हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत्

Question 1.
‘गर्हितः’ इति पदस्य कः अर्थः?
(क) निन्दितः
(ख) गृहीतः
(ग) प्रसीदति
(घ) गच्छति

Answer

Answer: (क) निन्दितः


Question 2.
‘अहम् अस्मि तपोदत्तः’ अत्र ‘अहम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) तपोदत्तः
(ख) तपोदत्ताय
(ग) तपोदत्तम्
(घ) तपोदत्तेन

Answer

Answer: (ख) तपोदत्ताय


Question 3.
‘तपोदत्तः’ इति पदस्य विशेषणपदं किम्?
(क) अहम्
(ख) अस्मि
(ग) तपस्यारतः
(घ) रतः

Answer

Answer: (ग) तपस्यारतः


Question 4.
‘प्रशंसितः’ इति पदस्य विलोमपदं किम्?
(क) गर्हितः
(ख) गर्हितोऽभवम्
(ग) कीदृशी
(घ) तस्मात्

Answer

Answer: (क) गर्हितः


Question 5.
तपोदत्तः कदा विद्यां न अधीतवान्?

Answer

Answer: बाल्ये


Question 6.
कीदृशः तपोदत्तः प्रविशति?

Answer

Answer: तपस्यारतः


Question 7.
तपोदत्तः कैः गर्हितः अभवत्?

Answer

Answer: सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च तपोदत्तः गर्हितः अभवत्।


(ख) (किञ्चिद् विमृश्य)
भवतु, किम् एतेन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(जलोच्छलनध्वनिः श्रूयते)
अये कुतोऽयं कल्लोलोच्छलनध्वनिः? महामत्स्यो मकरो वा भवेत्। पश्यामि तावत्।
(पुरुषमेकं सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं दृष्ट्वा सहासम्)

Question 1.
‘उपैति’ इति पदस्य पर्यायपदम् किम्?
(क) प्राप्नोति
(ख) उत्पतति
(ग) आगच्छति
(घ) भवति

Answer

Answer: (क) प्राप्नोति


Question 2.
‘पुरुषं’ इति पदस्य विशेषणपदं किम्?
(क) पुरुषमेकं
(ख) एकम्
(ग) प्रयास
(घ) निर्माणम्

Answer

Answer: (ख) एकम्


Question 3.
‘निवृत्तः’ इति पदस्य विलोमपदं किम्?
(क) प्रवृतः
(ख) भ्रान्तः
(ग) कुतः
(घ) उपैति।

Answer

Answer: (क) प्रवृतः


Question 4.
‘उपैति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) दिवसे
(ख) सन्ध्यां
(ग) मार्गभ्रान्तः
(घ) गृहम्

Answer

Answer: (ग) मार्गभ्रान्तः


Question 5.
कः जलोच्छलनध्वनिः श्रूयते?

Answer

Answer: तपोदत्तः


Question 6.
दिवसे मार्गभ्रान्तः कदा गृहम् उपैति?

Answer

Answer: सन्ध्याम्


Question 7.
तपोदत्तः किमर्थम् अहस?

Answer

Answer: एकं पुरुषं सिकताभिः सेतुनिर्माणं-प्रयासं कुर्वाणं दृष्ट्वा तपोदत्तः अहसत्।


(ग) पुरुषः – भोस्तपस्विन्! कथं माम् अवरोधं करोषि। प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।
तपोदत्तः – आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?
पुरुषः – (सोत्प्रासम्) चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधिरोढुं विश्वसिमि। समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।
तपोदत्तः – (सव्यङ्ग्यम्)
साधु साधु! आञ्जनेयमप्यतिक्रामसि!
पुरुषः – (सविमर्शम्)
कोऽत्र सन्देहः? किञ्च,

Question 1.
‘न अहम् सोपानमार्ग ………………. अस्मिन् वाक्ये ‘अहम्’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) विश्वसिमि
(ख) अस्मि
(ग) करिष्यसि
(घ) चिन्तितम्

Answer

Answer: (क) विश्वसिमि


Question 2.
‘आञ्जनेयम्’ इति पदस्य समानार्थकपदं किम्?
(क) रामम्
(ख) तपोदत्तम्
(ग) इन्द्रम्
(घ) हनुमन्तम्

Answer

Answer: (घ) हनुमन्तम्


Question 3.
‘भवता चिन्तितं’ अत्र ‘भवता’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) तपोदत्तः
(ख) तपोदत्ताय
(ग) पुरुषः
(घ) पुरुषाय

Answer

Answer: (घ) पुरुषाय


Question 4.
‘अनुचितम्’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) सम्यक्
(ख) चिन्तितं
(ग) क्षमः
(घ) संकल्पं

Answer

Answer: (क) सम्यक्


Question 5.
पुरुषः काभिः एव सेतोः निर्माणं करोति?

Answer

Answer: सिकताभिः


Question 6.
केन सर्वं सिद्धम् भवति?

Answer

Answer: प्रयत्नेन


Question 7.
पुरुषः कस्मिन् न विश्वसिति?

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


(घ) तपोदत्तः – (सवैलक्ष्यम् आत्मगतम्)
अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमत्र पश्यामि। अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि! तदियं भगवत्याः शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। पुरुषार्थैरेव लक्ष्यं प्राप्यते। (प्रकाशम्)
भो नरोत्तम! नाऽहं जाने यत् कोऽस्ति भवान्। परन्तु भवद्भिः उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्यामवाप्तुं प्रयतमानः अहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानी विद्याध्ययनाय गुरुकुलमेव गच्छामि। (सप्रणामं गच्छति)

Question 1.
‘सलज्जम्’ इति अर्थे किम् पदम् प्रयुक्तम्?
(क) सवैलक्ष्यम्
(ख) विनैव
(ग) तदियं
(घ) अवमानना

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


Question 2.
‘न अहम् जाने ……..’ अत्र ‘जाने’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भवान्
(ख) अहम्
(ग) यत्
(घ) नरोत्तम

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


Question 3.
‘मया’. इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) तपोदत्तस्य
(ख) तपोदत्तः
(ग) तपोदत्ताय
(घ) तपोदत्तम्

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


Question 4.
‘प्रकाशम्’ इति पदस्य विलोमपदं किम्?
(क) लक्ष्यम्
(ख) आत्मगतम्
(ग) उद्दिश्य
(घ) सत्यमत्र

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


Question 5.
पुरुषार्थैः किम् प्राप्यते?

Answer

Answer: लक्ष्यम्


Question 6.
भद्रपुरुषः कम् अधिक्षिपति?

Answer

Answer: तपोदत्तम्


Question 7.
तपोदत्तः तं पुरुषं किम् कथयति?

Answer

Answer: तपोदत्तः तं पुरुषं कथयति, “भवद्भिः उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्याम् अवाप्तुम् प्रयतमानः अहम् अपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानीं विद्याध्ययनाय गुरुकुलम् एव गच्छामि।”


अधोलिखितकथनेषु रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुतउत्तराणि

(i) तपोदत्तः विद्याध्ययनाय गुरुकुलं गच्छति।
(ii) पुरुषः सिकताभिः सेतुनिर्माणं करोति।
(iii) गुरुगृहं गत्वा विद्याभ्यासः करणीयः।
(iv) जगति मूर्खाणाम् अभावः न अस्ति।
(v) तपोदत्तः बाल्ये विद्यां न अधीतवान्।
(vi) तपोदत्तः तपश्चर्यया विद्याम् अवाप्तुं प्रवृत्तः अभवत्।
(vii) पुरुषः नद्यां सिकताभिः सेतुनिर्माणं कर्तुम् प्रयतते।
(viii) इयं शारदायाः अवमानना अस्ति।

Answer

Answer:
(i) तपोदत्तः किमर्थम् गुरुकुलं गच्छति?
(ii) कः सिकताभिः सेतुनिर्माणं करोति?
(iii) कुत्र गत्वा विद्याभ्यासः करणीयः?
(iv) कुत्र मूर्खाणाम् अभावः न अस्ति?
(v) तपोदत्तः कदा विद्यां अधीतवान्?
(vi) तपोदत्तः तपश्चर्यया काम् अवाप्तुं प्रवृत्त अभवत्?
(vii) पुरुषः नद्यां काभिः सेतुनिर्माणं कर्तुम् प्रयतते?
(viii) इयं कस्याः अवमानना अस्ति?


निम्नलिखितश्लोकानाम् अन्वयेषु समुचितपदानि चित्वा पूरयत

(क) परिधानैरलङ्कारभूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे।

अन्वयः- यदि नरः (i) ……………….. अलंकारैः (ii) ………………… अपि निर्मणिभोगी (iii) ……………….. सभायां (iv) ……………… वा न शोभते।

Answer

Answer:
यदि नरः (i) परिधानैः अलंकारैः (ii) भूषितः अपि निर्मणिभोगी (iii) इव सभायां (iv) गृहे वा न शोभते।


(ख) रामो बबन्ध यं सेतु शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्।।

अन्वयः- रामः मकरालये (i) …………….. यं सेतुं (ii) ……………. त्वम् बालुभिः (iii) …………….. विदधद् (iv) ………….. यासि।

Answer

Answer:
रामः मकरालये (i) शिलाभिः यं सेतुं (ii) बबन्ध त्वम् बालुभिः (iii) तं विदधद् (iv) अतिरामताम् यासि।


(ग) विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम॥

अन्वयः- यदि लिपि (i) ……….. विना केवलम् (ii) …………. एव ते वशे विद्या (iii) …………. तथा मम (iv) ……………… सेतुः।

Answer

Answer:
यदि लिपि (i) अक्षरज्ञानम् विना केवलम् (ii) तपोभिः एव ते वशे विद्या (iii) स्युः तथा मम (iv) एषः सेतुः।


अधोलिखितश्लोकानाम् भावार्थ मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) परिधानैरलङ्कारैर्भूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे॥

भावार्थ:-मानवः वस्त्रैः (i) ………………. च भूषितः अपि (ii) ………………. इव सभायां गृहे वा न शोभते तथैव (iii) ………….. विना नरः (iv) ……….. न शोभते।
मञ्जूषा- विद्या, निर्मणिभोगी, आभूषणैः, कुत्रापि

Answer

Answer:
मानवः वस्त्रैः आभूषणैः च भूषितः अपि निर्मणिभोगी इव सभायां गृहे वा न शोभते तथैव नूनं विद्यां विना नरः कुत्रापि न शोभते।


(ख) रामो बबन्ध यं सेतुं शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्॥

भावार्थ:-विप्ररूपे इन्द्रस्य (i) ……………… सेतुनिर्माणप्रयासं दृष्ट्वा तपोदत्तः तम् (ii) ……………. कथयति यत् पुरा समुद्रे (iii) ………………. प्रस्तरैः सेतुनिर्माणम् अकरोत्। अधुना त्वम् (iv) …………… निर्मातुं वाञ्छसि।
मञ्जूषा- सेतुम्, श्रीरामेण, उपहासपूर्वकम्, सिकताभिः

Answer

Answer:
विप्ररूपे इन्द्रस्य सिकताभिः सेतुनिर्माणप्रयासं दृष्ट्वा तपोदत्तः तम् उपहासपूर्वकम् कथयति पुरा समुद्रे श्रीरामेण प्रस्तरैः सेतुनिर्माणम् अकरोत्। अधुना त्वम् सिकताभिः सेतुम् निर्मातुं वाञ्छसि।


(ग) विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम॥

भावार्थ:-तपोमात्रेण विद्याम् अवाप्तुम् (i) ……………. तपोदत्तम् दृष्ट्वा पुरुषः कथयति यत् लिपि-अक्षरज्ञानं विना केवलं (ii) ………………… एव कोऽपि विद्वान् भवेत्। तथैव (iii) ………………. सेतुनिर्माणप्रयासम् अपि (iv) ……………… भविष्यति।
मञ्जूषा- तपश्चर्यया, प्रयतमानम्, सिकताभिः, सफलं

Answer

Answer:
तपोमात्रेण विद्याम् अवाप्तुम् प्रयतमानम् तपोदत्तम् दृष्ट्वा पुरुषः कथयति यत् लिपि-अक्षरज्ञानं विना केवलं तपश्चर्यया एव कोऽपि विद्वान् भवेत्। तथैव सिकताभिः सेतुनिर्माणप्रयासम् अपि सफलं भविष्यति।


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) एषः इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(ii) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
(iii) सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढ़तया।
(iv) तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते।
(v) तपोमात्रेण विद्यामवाप्तुं प्रयतमानोऽहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि।
(vi) मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति।
(vii) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
(viii) अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि।

Answer

Answer:
(i) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
(ii) एषः इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(iii) तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते।
(iv) सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढ़तया।
(v) मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति।
(vi) अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि।
(vii) तपोमात्रेण विद्यामवाप्तुं प्रयतमानोऽहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि।
(viii) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


अधोलिखित वाक्येषु रेखांकितपदानाम् कृते उचितम् अर्थम् चित्वा लिखत

Question 1.
तपोदत्तः सर्वैः कुटुम्बिभिः गर्हितः अभवत्।
(क) निन्दितः
(ख) गृहीतः
(ग) गच्छतः
(घ) गृहीतं

Answer

Answer: (क) निन्दितः


Question 2.
जगति मूर्खाणाम् अभावः न अस्ति।
(क) संसारे
(ख) विश्वः
(ग) जागृतः
(घ) जयति

Answer

Answer: (क) संसारे


Question 3.
आञ्जनेयम् अतिक्रामसि।
(क) अंजनि
(ख) हनुमन्तम्
(ग) हनुमान्
(घ) अञ्जनेः

Answer

Answer: (ख) हनुमन्तम्


Question 4.
तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यम् अवाप्तुम् अभिलषति।
(क) विदुषी
(ख) विद्वान्
(ग) पाण्डित्यम्
(घ) द्वेषरहितं

Answer

Answer: (ग) पाण्डित्यम्


अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

सुबुद्धिः, निर्लज्जम्, मूर्खत्वम्, नरोत्तमः, गर्हितः
पदानि – विलोमशब्दाः
(क) सवैलक्ष्यम् – ………….
(ख) वैदुष्यम् – …………….
(ग) दुर्बुद्धिः – ……………..
(घ) प्रशंसितः – ……………
(ङ) नराधमः – ………………

Answer

Answer:
पदानि – विलोमशब्दाः
(क) सवैलक्ष्यम् – निर्लज्जम्
(ख) वैदुष्यम् – मूर्खत्वम्
(ग) दुर्बुद्धिः – सुबुद्धिः
(घ) प्रशंसितः – गर्हितः
(ङ) नराधमः – नरोत्तमः


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *