MCQ Questions for Class 9 Sanskrit Chapter 6 भ्रान्तो बालः with Answers

Practicing the Class 9 Sanskrit Chapter 6 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of भ्रान्तो बालः Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit भ्रान्तो बालः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखित गद्याशान् पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

(क) भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्। तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्।

सः अचिन्तयत्-“विरमन्तु एते वराकाः पुस्तकदासाः। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालयं गत्वा भूयः क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिनः प्राणिन एव मम वयस्याः सन्तु इति।

Question 1.
‘अगच्छत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भ्रान्तः
(ख) कश्चन्
(ग) बालः
(घ) पाठशाला

Answer

Answer: (ग) बालः


Question 2.
‘क्रीडाभिः’ इति पदस्य अर्थे किं पदम् प्रयुक्तम्?
(क) केलिभिः
(ख) किमपि
(ग) तन्द्रालु
(घ) क्रीडितुम्

Answer

Answer: (क) केलिभिः


Question 3.
‘तेन सह केलिभिः ………..’ अत्र ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्।
(क) बालकस्य
(ख) बालाय
(ग) बालः
(घ) मित्राय

Answer

Answer: (ख) बालाय


Question 4.
‘वराकाः’ इति पदस्य विशेष्यपदं किम्?
(क) अहम्
(ख) पुस्तक
(ग) पुस्तकदासाः
(घ) एते

Answer

Answer: (ग) पुस्तकदासाः


Question 5.
बालः एकाकी एव कुत्र प्राविशत्?

Answer

Answer: उद्यानम्


Question 6.
बालः कीदृशः आसीत्?

Answer

Answer: भ्रान्तः


Question 7.
बालकस्य वयस्याः किमर्थं त्वरमाणाः अभवन्?

Answer

Answer: बालकस्य वयस्याः पूर्वदिनपाठान् स्मृत्वा विद्यालय-गमनाय त्वरमाणाः अभवन्ः।


(ख) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्रिवारं आह्वयत्। तथापि, सः मधुकरः अस्य बालस्य आह्वानं तिरस्कृतवान्। ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत् – “वयं हि मधुसंग्रहव्यग्रा” इति।

तदा स बालः ‘अलं भाषणेन अनेन मिथ्यागवितेन कीटेन’ इति विचिन्त्य अन्यत्र दत्तदृष्टि: चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्, अवदत् च-“अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति। स तु “मया वटदुमस्य शाखायां नीडं कार्यम्” इत्युक्त्वा स्वकर्मव्यग्रोः अभवत्।

Question 1.
‘तृणं’ इति पदस्य विशेषणपदं किम्?
(क) स्वादूनि
(ख) शुष्कम्
(ग) त्यज
(घ) भक्ष्य

Answer

Answer: बालकस्य वयस्याः पूर्वदिनपाठान् स्मृत्वा विद्यालय-गमनाय त्वरमाणाः अभवन्ः।


Question 2.
‘आंगच्छ’ इति पदस्य समानार्थकपदं किम्?
(क) एहि
(ख) त्यज
(ग) यामि
(घ) व्रजन्तम्

Answer

Answer: बालकस्य वयस्याः पूर्वदिनपाठान् स्मृत्वा विद्यालय-गमनाय त्वरमाणाः अभवन्ः।


Question 3.
‘आह्वयत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सः
(ख) मधुकरं
(ग) तं
(घ) अथ

Answer

Answer: बालकस्य वयस्याः पूर्वदिनपाठान् स्मृत्वा विद्यालय-गमनाय त्वरमाणाः अभवन्ः।


Question 4.
‘वयं’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) मधुकरेभ्यः
(ख) मधुकरं
(ग) मधुकराय
(घ) मधुकरः

Answer

Answer: बालकस्य वयस्याः पूर्वदिनपाठान् स्मृत्वा विद्यालय-गमनाय त्वरमाणाः अभवन्ः।


Question 5.
मधुकरः कस्मिन् व्यग्रः आसीत्?

Answer

Answer: मधुसंग्रहे


Question 6.
बालकः मधुकरं किमर्थं आह्वयत्?

Answer

Answer: क्रीडितुम्


Question 7.
बालकः चटकाय किम् अकथयत्?

Answer

Answer: बालक चटकाय अकथयत्, “मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। त्यज शुष्कमेतत् तृणं स्वादूनि भक्ष्यकवलानि ते दास्यामि।”


(ग) सर्वैः एवं निषिद्धः स बालो भग्नमनोरथः सन्- ‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति। न कोऽपि मामिव वृथा कालक्षेपं सहते। नम एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता। अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।’ ततः प्रभृति स विद्याव्यसनी भूत्वा महती वैदुषी प्रथां सम्पदं च अलभत।

Question 1.
‘घृणा’ इति पदस्य पर्यायपदं किम्?
(क) तन्द्रा
(ख) सम्पदं
(ग) प्रथा
(घ) कुत्सा

Answer

Answer: (घ) कुत्सा


Question 2.
‘अहम्’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) करोमि
(ख) लेभे
(ग) भवति
(घ) सहते

Answer

Answer: (क) करोमि


Question 3.
‘कः अपि अहम् इव’ अत्र ‘अहम्’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) बालकाय
(ख) बालकं
(ग) बालकस्य
(घ) बालकः

Answer

Answer: (ग) बालकस्य


Question 4.
‘प्रेम’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) कुत्सा
(ख) तन्द्रा
(ग) निमग्नः
(घ) त्वरितं

Answer

Answer: (क) कुत्सा


Question 5.
अस्मिन् जगति प्रत्येकं कस्मिन् निमग्नः भवति?

Answer

Answer: स्व-स्वकृत्ये


Question 6.
सर्वैः निषिद्धः बालकः कीदृशः अभवत्?

Answer

Answer: भग्नमनोरथः


Question 7.
विद्याव्यसनी भूत्वा सः बालकः किम् लब्धवान्।

Answer

Answer: विद्याव्यसनी. भूत्वा सः बालक: महती वैदुषी प्रथाम् सम्पदं च लब्धवान्।


(घ) यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि॥ इति।

Question 1.
‘मां’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) बालकस्य
(ख) स्वामिनः
(ग) कुक्कुरस्य
(घ) चटकस्य

Answer

Answer: (ग) कुक्कुरस्य


Question 2.
‘पतितव्यम्’ इति पदस्य स्थाने किं पदं प्रयुक्तम्?
(क) पुत्रप्रीत्या
(ख) नियोग
(ग) भ्रष्टव्यम्
(घ) ईषदपि

Answer

Answer: (ग) भ्रष्टव्यम्


Question 3.
श्लोके प्रथमे पंक्तौ क्रियापदं किम्?
(क) पुत्रप्रीत्या
(ख) पोषयति
(ग) गृहे
(घ) तस्य

Answer

Answer: (ख) पोषयति


Question 4.
‘प्रभूतं’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) ईषत्
(ख) मीषद्
(ग) भ्रष्टव्यम्
(घ) नियोग

Answer

Answer: (क) ईषत्


Question 5.
स्वामी कुक्कुरम् कथम् पोषयति?

Answer

Answer: पुत्रप्रीत्या


Question 6.
रक्षानियोगकारणत् केन न भ्रष्टव्यम्?

Answer

Answer: कुक्कुरेन


Question 7.
इदम् श्लोकं कः कम् कथयति?

Answer

Answer: इदम् श्लोकं कुक्कुरः बालकं कथयति।


अधोलिखित कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्’उत्तराणि

(i) भ्रान्तः बालः क्रीडितुं निष्क्रान्तः।
(ii) बालकस्य मित्राणि विद्यालयगमनाय त्वरमाणाः आसन्।
(iii) पक्षिणः मानुषेषु न उपगच्छन्ति।
(iv) कुक्कुरः मानुषाणां मित्रम् अस्ति।
(v) प्रीतः बालः कुक्कुरम् सम्बोधयामास।
(vi) बालकः पुष्पोद्याने मधुकरं अपश्यत्।

Answer

Answer:
(i) भ्रान्तः बालः किमर्थं निष्क्रान्तः?
(ii) कस्य मित्राणि विद्यालयगमनाय त्वरमाणाः आसन्?
(iii) के मानुषेषु न उपगच्छन्ति?
(iv) कुक्कुरः केषाम् मित्रम् अस्ति?
(v) कीदृशः बालः कुक्कुरम् सम्बोधयामास?
(vi) बालकः कुत्र मधुकरं अपश्यत्?


अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानानां पूर्ति समुचितपदैः कुरुतः

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।।

अन्वयः- यो (i) …………………. पुत्रप्रीत्या पोषयति। (ii) …………………. स्वामिनः गृहे रक्षानियोगकारणत् मया (iii) …………….” अपि (iv) …………….. भ्रष्टव्यम्।

Answer

Answer:
यो (i) मां पुत्रप्रीत्या पोषयति। (ii) तस्य स्वामिनः गृहे रक्षानियोगकारणात् मया (iii) ईषद् अपि (iv) न भ्रष्टव्यम्।


निम्नलिखितश्लोकस्यः भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।

भावार्थ:-स्वस्वामिनं प्रति कर्त्तव्यनिष्ठा प्रदर्शितः (i) ……………….. भ्रान्तं बालं कथयति यत् तस्य (ii) …………… गृहे पुत्रस्य सदृशं (ii i)…………….. तस्य रक्षणम् एव कुक्कुरस्य परमं . (iv) …………. अस्ति।
मञ्जूषा- पोषयति, स्वामी, कुक्कुरः, कर्त्तव्यं

Answer

Answer:
स्वस्वामिनं प्रति कर्त्तव्यनिष्ठा प्रदर्शितः कुक्कुरः भ्रान्तं बालं कथयति यत् तस्य स्वामी गृहे पुत्रस्य सदृशं पोषयति तस्य रक्षणम् एव कुक्कुरस्य परमं कर्त्तव्यं अस्ति।


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति।
(ii) ततः प्रभृति सः विद्याव्यसनी भूत्वा महती वैदुषी प्रथां सम्पदं च अलभत।
(iii) अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।
(iv) भ्रान्तः कश्चन् बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(v) तन्द्रालुः बालः लज्जया तेषाम् दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्।
(vi) किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्।
(vii) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीड़ितुम् द्वित्रिवारम् आह्वयत्।
(viii) ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत-“वयं हि मधुसंग्रहव्यग्रा” इति।

Answer

Answer:
(i) भ्रान्तः कश्चन् बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(ii) किंन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्।
(iii) तन्द्रालुः बालः लज्जया तेषाम् दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्।
(iv) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्तिवारम् आह्वयत्।
(v) ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत्-“वयं हि मधुसंग्रहव्यग्रा” इति।
(vi) कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति।
(vii) अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।
(viii) ततः प्रभृति सः विद्याव्यसनी भूत्वा महती वैदुषी प्रथा सम्पदं च अलभत।


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत-

Question 1.
कोऽपि वयस्येषु उपलभ्यमानः न आसीत्।
(क) मित्रेषु
(ख) बालकेषु
(ग) खगेषु
(घ) चटकासु

Answer

Answer: (क) मित्रेषु


Question 2.
तन्द्रालुः बालः उद्यानं प्रविवेश।
(क) अलसः
(ख) सरल:
(ग) सुन्दरः
(घ) उत्तमः

Answer

Answer: (क) अलसः


Question 3.
मधुकरं दृष्ट्वा बालकः तम् आह्वयत्।
(क) मधु
(ख) मक्षिका
(ग) भ्रमरं
(घ) चटकं

Answer

Answer: (ग) भ्रमरं


Question 4.
बालकः पलायमानं श्वानम् अवलोकयत्।
(क) सिंहम्
(ख) मूषकम्
(ग) बिडालम्
(घ) कुक्कुरम्

Answer

Answer: (घ) कुक्कुरम्


Question 5.
सर्वैः निषिद्धः बालः भग्नमनोरथः अभवत्।
(क) खण्डितकामः
(ख) पूर्णकामः
(ग) पूर्णमनोरथः
(घ) स्वीकृतः

Answer

Answer: (क) खण्डितकामः


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां विलोमपदानि दत्तानि। तानि चित्वा पदानां समक्षं लिखत

“क’ स्तम्भः – ‘ख’ स्तम्भः
(क) स्वामिनः – प्रेम
(ख) कुत्सा – भृत्यस्य
(ग) अनुरूपम् – स्वीकृतः
(घ) निषिद्धः – अननुरूपम्
(ङ) शुष्कं – आर्द्रम्

Answer

Answer:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) स्वामिनः – भृत्यस्य
(ख) कुत्सा – प्रेमम्
(ग) अनुरूपम् – अननुरूपम्
(घ) निषिद्धः – स्वीकृतः
(ङ) शुष्कं – आर्द्रम्


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *