MCQ Questions for Class 9 Sanskrit Chapter 2 स्वर्णकाकः with Answers
Practicing the Class 9 Sanskrit Chapter 2 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of स्वर्णकाकः Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.
Here are the links available online for Free Download of Class 9 Sanskrit स्वर्णकाकः MCQ Multiple Choice Questions with Answers PDF.
अधोलिखितगद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत
(क) नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्-“तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।” स्वर्णपक्षः काकः प्रोवाच, “मा शुचः। सूर्योदयात्प्राग् ग्रामाबहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।” प्रहर्षिता बालिका निद्रामपि न लेभे।
Question 1.
‘तं तण्डुलान् खादन्तं…।’ अत्र ‘तं’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) स्वर्णं
(ख) वृद्धायै
(ग) बालिकायै
(घ) काकाय
Answer
Answer: (घ) काकाय
Question 2.
‘प्रार्थयत्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सा
(ख) काकः
(ग) बालिका
(घ) तं
Answer
Answer: (क) सा
Question 3.
‘स्वर्णपक्षः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) बालिका
(ख) वृद्धा
(ग) काकः
(घ) माता
Answer
Answer: (ग) काकः
Question 4.
‘हसितुम्’ इति पदस्य विलोमपदं किम्?
(क) रोदितुम्
(ख) रोदी
(ग) दृष्टः
(घ) हसन्तम्
Answer
Answer: (क) रोदितुम्
Question 5.
कः तण्डुलमूल्यं दास्यति?
Answer
Answer: स्वर्णकाकः
Question 6.
स्वर्णकाकः कया न पूर्वं दृष्टः?
Answer
Answer: बालिकया
Question 7.
बालिका किमर्थं रोदितुम् आरब्धा?
Answer
Answer: काकं तण्डुलान् खादन्तं हसन्तम् च विलोक्य बालिका रोदितुम् आरब्धा।
(ख) चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्तां तां विलोक्य काकः अवदत्-“पूर्वं लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्याम् उत ताम्रस्थाल्याम्?” बालिका अवदत्-ताम्रस्थाल्याम् एव अहं- “निर्धना भोजनं करिष्यामि।” तदा सा आश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं “परिवेषितम्।” न एतादृशम् स्वादु भोजनमद्यावधि बालिका खादितवती। काकोऽवदत्-बालिके! अहमिच्छामि यत् त्वम् सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते। अतः “त्वं शीघ्रमेव स्वगृहं गच्छ।”
Question 1.
‘विलोक्य’ इति पदस्य कः अर्थः?
(क) अभ्रमत्
(ख) अकथयत्
(ग) दृष्ट्वा
(घ) गत्वा
Answer
Answer: (ग) दृष्ट्वा
Question 2.
‘करिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहम्
(ख) काकः
(ग) बालिका
(घ) निर्धना
Answer
Answer: (क) अहम्
Question 3.
‘त्वं शीघ्रमेव गृहं गच्छ।’ अत्र ‘त्वं’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) काकाय
(ख) बालिकायै
(ग) वृद्धायै
(घ) बालिकाय
Answer
Answer: (ख) बालिकायै
Question 4.
‘धनिका’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) निर्धना
(ख) गता
(ग) श्रान्तां
(घ) सर्वदा
Answer
Answer: (क) निर्धना
Question 5.
कस्याः माता एकाकिनी वर्तते?
Answer
Answer: बालिकायाः
Question 6.
का स्वादु भोजनम् खादितवती?
Answer
Answer: बालिका
Question 7.
बालिका भवने किमर्थं विस्मयं गता?
Answer
Answer: चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा बालिका विस्मयं गता।
(ग) तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईर्ष्णया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता। तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत्-“भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।” काकोऽब्रवीत्-“अहं त्वत्कृते सोपानम् अवतारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा।” गर्वितया बालिकया प्रोक्तम्-“स्वर्णमयेन सोपानेन अहम् आगच्छामि” परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्।
Question 1.
‘अकारयत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) तां
(ख) स्वर्णकाकः
(ग) भोजनम्
(घ) ताम्रभाजने
Answer
Answer: (ख) स्वर्णकाकः
Question 2.
‘अहम् त्वत्कृते…।’ अस्मिन् वाक्ये ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) काकम्
(ख) बालिकायै
(ग) वृद्धायै
(घ) स्वर्णकाकाय
Answer
Answer: (घ) स्वर्णकाकाय
Question 3.
‘बालिकया’ इति पदस्य विशेषणपदं किम्?
(क) गर्वितया
(ख) प्रोक्तम्
(ग) अपरा
(घ) स्वर्णमयेन
Answer
Answer: (क) गर्वितया
Question 4.
वायसः’ इति पदस्य पर्यायः कः?
(क) पुत्री
(ख) माता
(ग) वृद्धा
(घ) काकः
Answer
Answer: (घ) काकः
Question 5.
काकः गर्वितबालिकायै कीदृशम् सोपानम् प्रायच्छत्?
Answer
Answer: ताम्रमयं
Question 6.
अपरा वृद्धा कीदृशी आसीत्?
Answer
Answer: लुब्धा
Question 7.
बालिका काकं निर्भर्त्सयन्ती किम् प्रावोचत्?
Answer
Answer: काकं निर्भर्त्सयन्ती बालिका प्रावोचत्-” भो नीचकाक! अहम् आगता। मह्यं तण्डुलमूल्यं प्रयच्छ।”
अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्उत्तराणि
(i) ग्रामे निर्धना वृद्धा न्यवसत्।
(ii) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।
(iii) माता पुत्रीम् आदिदेश।
(iv) स्वर्णकाकः तया पूर्वं न दृष्टः।
(v) ग्रामात् बहिः पिप्पलवृक्षः आसीत्।
(vi) वृक्षस्य उपरि स्वर्णमयः प्रासादः वर्तते।
(vii) बालिकया लोभस्य फलं प्राप्तम्।
(vi) बालिका स्वर्णभवनं आरोहत।
(ix) काकेन तिस्रः मञ्जूषाः समुत्क्षिप्ताः।
(x) प्रहर्षिता बालिका निद्राम् अपि न लेभे।
Answer
Answer:
(i) ग्रामे कीदृशी वृद्धा न्यवसत्?
(ii) सूर्यातपे तण्डुलान् केभ्यः रक्ष?
(iii) माता काम् आदिदेश?
(iv) स्वर्णकाकः कया पूर्वं न दृष्टः?
(v) कस्मात् बहिः पिप्पलवृक्षः आसीत्?
(vi) कस्य उपरि स्वर्णमयः प्रासादः वर्तते?
(vii) कया लोभस्य फलं प्राप्तम्?
(vii) बालिका कुत्र आरोहत?
(ix) काकेन कति मञ्जूषाः समुत्क्षिप्ताः?
(x) प्रहर्षिता बालिका काम् अपि न लेभे?
घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) एकदा माता स्थाल्या तण्डुलान् निक्षिप्य पुत्रीम् आदिदेश।
(ii) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्।
(iii) तस्याः एका दुहिता विनम्रा मनोहरा चासीत्।
(iv) सूर्योदयात्प्राग् ग्रामाद् बहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्।
(v) नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः।
(vi) स्वर्णपक्षः काकः प्रोवाच, मा शुचः।
(vii) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।
(viii) तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा।
Answer
Answer:
(i) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्।
(ii) तस्याः एका दुहिता विनम्रा मनोहरा चासीत्।
(iii) एकदा माता स्थाल्यां तुण्डलान् निक्षिप्य पुत्रीम् आदिदेश।
(iv) नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः।
(v) तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा।
(vi) स्वर्णपक्षः काकः प्रोवाच, मा शुचः।
(vii) सूर्योदयात्प्राग् ग्रामाद् बहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्।
(viii) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।
रेखांकितपदानाम् प्रसङ्गानुसार शुद्धं अर्थं चित्वा लिखत.
Question 1.
वृद्धायाः दुहिता विनम्रा आसीत्।
(क) पुत्री
(ख) पुत्र
(ग) दुग्धं
(घ) धेनुः
Answer
Answer: (क) पुत्री
Question 2.
सूर्यातपे तण्डुलान् खगेभ्यः रक्षा
(क) चणकान् .
(ख) ओदनं
(ग) अक्षतान्
(घ) शाकान्
Answer
Answer: (ग) अक्षतान्
Question 3.
तत्र स्वर्णमयः प्रासादः आसीत्।
(क) भवनम्
(ख) मिष्ठान्नम्
(ग) प्रसादं
(घ) प्राप्तम्।
Answer
Answer: (क) भवनम्
Question 4.
काकेन गवाक्षात् कथितम्।
(क) ग्रामात्
(ख) कक्षात्
(ग) वातायनात्
(घ) भवनात्
Answer
Answer: (ग) वातायनात्
Question 5.
बालिकां विलोक्य काकः प्राह।
(क) उवाच
(ख) अहसत्
(ग) प्राप्नोत्
(घ) प्राप्तम्।
Answer
Answer: (क) उवाच
Question 6.
यथेच्छं एकाम् मञ्जूषां गृहाण।
(क) गृहाणि
(ख) ग्रहणं कुरु
(ग) गुहां
(घ) गृहम्
Answer
Answer: (ख) ग्रहणं कुरु
अधोलिखितपदानां पर्यायपदानि लिखत
दुहिता, स्त्री, प्रासादः, खगः
Answer
Answer:
दुहिता – सुता, तनुजा, पुत्री।
स्त्री – महिला, ललना, नारी।
प्रासादः – राजभवनः, महलः हर्म्यम्।
खगः – पक्षी, खेचरः, विहगः।
0 Comments