MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers
Practicing the Class 9 Sanskrit Chapter 11 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of पर्यावरणम् Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.
Here are the links available online for Free Download of Class 9 Sanskrit पर्यावरणम् MCQ Multiple Choice Questions with Answers PDF.
अधोलिखितान् गद्यांशान् पठित्वा प्रश्नान् उत्तरत
(क) प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः, सुखसाधनैः च तर्पयति। पृथिवी, जलम्, तेजः, वायुः, आकाशः च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आवियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्।
Question 1.
‘पुष्णाति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सर्वान्
(ख) इयम्
(ग) विविधैः
(घ) प्रकारैः
Answer
Answer: (ख) इयम्
Question 2.
‘तानि एव’ अत्र ‘तानि’ सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) जलाय
(ख) पर्यावरणाय
(ग) प्रमुखतत्त्वेभ्यः
(घ) प्रमुखतत्त्वानि
Answer
Answer: (ग) प्रमुखतत्त्वेभ्यः
Question 3.
‘आपः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) वायुः
(ख) तेजो
(ग) जलम्
(घ) परितः
Answer
Answer: (ग) जलम्
Question 4.
‘प्राणिनाम्’ इति पदस्य विशेषणपदं किम्?
(क) सर्वेषां
(ख) प्रकृतिः
(ग) यतते
(घ) संरक्षणाय
Answer
Answer: (क) सर्वेषां
Question 5.
का सर्वान् सुखसाधनैः तर्पयति?
Answer
Answer: प्रकृतिः
Question 6.
प्रकृतिः केषाम् संरक्षणाय यतते?
Answer
Answer: प्राणिनां
Question 7.
प्रकृतेः प्रमुखानि तत्त्वानि कानि सन्ति?
Answer
Answer: पृथिवी, जलं, वायुः, तेजः, आकाशः च प्रकृतेः प्रमुखतत्त्वानि सन्ति।
(ख) अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म। यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति। सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायु वितरन्ति।
Question 1.
‘समुपहरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सरितः
(ख) लताः
(ग) वृक्षाः लताः च
(घ) फलानि
Answer
Answer: (ग) वृक्षाः लताः च
Question 2.
लोकमङ्गलशंसिनः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) पर्यावरणम्
(ख) वने
(ग) उपलभ्यते
(घ) ऋषयः
Answer
Answer: (घ) ऋषयः
Question 3.
‘खगाः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) विहगाः
(ख) सरितः
(ग) विविधाः
(घ) यतः
Answer
Answer: (क) विहगाः
Question 4.
‘मलिनं’ इति पदस्य विलोमपदं किम्?
(क) कल्पं
(ख) निर्मलं
(ग) रसायनं
(घ) अमृत
Answer
Answer: (ख) निर्मलं
Question 5.
विविधाः विहगाः कलकूजितैः किम् ददाति?
Answer
Answer: श्रोत्ररसायनं
Question 6.
कीदृशाः ऋषयः वने निवसन्ति स्म?
Answer
Answer: लोकमङ्गलाशंसिनः
Question 7.
के निर्मलं जलं प्रयच्छन्ति?
Answer
Answer: सरितः गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति।
(ग) परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति। तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति।
Question 1.
‘वस्तूनि’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) बहुमूल्यानि
(ख) स्वल्प
(ग) लाभाय
(घ) नाशयन्ति
Answer
Answer: (क) बहुमूल्यानि
Question 2.
‘वनपश्वश्च’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) शरणरहिता
(ख) उपद्रवं
(ग) विदधति
(घ) ग्रामेषु
Answer
Answer: (ग) विदधति
Question 3.
‘अवर्षणः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) वृक्षाः
(ख) अवृष्टिः
(ग) रहिता
(घ) नाशो
Answer
Answer: (ख) अवृष्टिः
Question 4.
‘पेयं’ इति पदस्य विलोमपदं किं प्रयुक्तम्?
(क) ऽपेयं
(ख) अपेयं
(ग) थाऽपेयं
(घ) पेय
Answer
Answer: (ख) अपेयं
Question 5.
नदीजलम् सर्वथा कीदृशम् जायते?
Answer
Answer: अपेयम्
Question 6.
स्वार्थान्धः मानवः किम् नाशयति?
Answer
Answer: पर्यावरणम्
Question 7.
विषाक्तजलेन किम् भवति?
Answer
Answer: विषाक्तजलेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशः जायते। नदीजलम् अपि सर्वथा अपेयं भवति।
अधोलिखितकथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्
(i) प्रकृतिः प्राणिनां संरक्षणाय यतते।
(ii) प्रकृतिः सुखसाधनैः सर्वान् तर्पयति।
(ii) प्रकृतिः अस्माभिः रक्षणीया।
(iv) प्राचीनकाले ऋषयः वने वसन्ति स्म।
(v) स्वार्थान्धः मानवः पर्यावरणम् नाशयति।
(vi) स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
(vii) सरितः निर्मलं जलं यच्छन्ति।
(viii) प्रकृतिरक्षया लोकरक्षा सम्भवति।
Answer
Answer:
(i) प्रकृतिः केषाम् संरक्षणाय यतते?
(ii) प्रकृतिः कैः सर्वान् तर्पयति?
(iii) प्रकृतिः काभिः रक्षणीया?
(iv) कदा ऋषयः वने वसन्ति स्म?
(v) कीदृशः मानवः पर्यावरणम् नाशयति?
(vi) किमर्थम् जनाः बहुमूल्यानि वस्तूनि नाशयन्ति?
(vii) के निर्मलं जलं यच्छन्ति?
(viii) कया लोकरक्षा सम्भवति?
अधोलिखितवाक्येषु रेखांकितपदानां कृते उचितं अर्थं चित्वा लिखत
Question 1.
अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(क) अनुत्पन्नजातकः
(ख) अजातशत्रुः
(ग) जातकाः
(घ) प्रसन्नशिशुः
Answer
Answer: (क) अनुत्पन्नजातकः
Question 2.
विविधाः विहगाः कलकूजितैः श्रौत्ररसायनं ददति।
(क) श्रोतव्यम्
(ख) श्रोतुम्
(ग) कर्णाभूषणम्
(घ) कर्णामृतम्
Answer
Answer: (घ) कर्णामृतम्
Question 3.
लोकमङ्गलाशंसिनः ऋषयः वने वसन्ति स्म।
(क) लोककल्याणकामाः
(ख) लोकमङ्गलम्
(ग) लोकशासकाः
(घ) समाजसुधारकाः
Answer
Answer: (क) लोककल्याणकामाः
Question 4.
जलप्लावनैः मानवाः सन्तप्ताः भवन्ति।
(क) जलप्रवाहेन
(ख) जलं वहति
(ग) जलपूर्णः
(घ) जलौधैः
Answer
Answer: (घ) जलौधैः
Question 5.
यन्त्रागाराणां जलं नद्यां निपात्यते।
(क) यन्त्रालयानाम्
(ख) यन्त्रैः निर्मितं
(ग) यन्त्रैः चालितं
(घ) यन्त्रस्यआगारम्
Answer
Answer: (क) यन्त्रालयानाम्
अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
दानवः, पृथिवी, मलिनं, उत्थानः, शीतलं
पदानि – विलोमशब्दाः
(क) निर्मलं – ……………..
(ख) मानवः – ………………
(ग) आकाशः – ……………….
(घ) नाशः – …………………
(ङ) ऊष्णं – ………………
Answer
Answer:
पदानि – विलोमशब्दाः
(क) निर्मलं – मलिनम्
(ख) मानवः – दानवः
(ग) आकाशः – पृथिवी
(घ) नाशः – उत्थानः
(ङ) ऊष्णं – शीतलम्
0 Comments