MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers

Practicing the Class 10 Sanskrit Chapter 8 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of विचित्रः साक्षी Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit विचित्रः साक्षी MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितगद्यांशान् पठित्वा प्रश्नान् उत्तरत

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।

Question 1.
‘तनयः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) निवसन्
(ख) अध्ययने
(ग) समभूत्
(घ) संलग्नः

Answer

Answer: (ग) समभूत्


Question 2.
‘पुत्रस्य’ इत्यर्थे गद्यांशे किम् पदं प्रयुक्तम्?
(क) तनूजस्य
(ख) तनयः
(ग) स्वपुत्रं
(घ) पुत्रं

Answer

Answer: (क) तनूजस्य


Question 3.
‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) पुत्राय
(ख) निर्धनजनाय
(ग) जनः
(घ) पुत्रः

Answer

Answer: (ख) निर्धनजनाय


Question 4.
‘गृहीत्वा’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) विहाय
(ख) पदातिः
(ग) संलग्नः
(घ) भूरि

Answer

Answer: (क) विहाय


Question 5.
केन पीडितः निर्धनः जनः पदातिः एव प्राचलत्?

Answer

Answer: अर्थकार्येन


Question 6.
निर्धनः जनः भूरि परिश्रम्य किम् अर्जितवान्?

Answer

Answer: वित्तम्


Question 7.
पिता किमर्थं व्याकुलः जातः?

Answer

Answer: तनूजस्य रुग्णताम् आकर्ण्य पिता व्याकुलः जातः।


तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।

Question 1.
‘प्राक्षिपत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) रक्षापुरुषः
(ख) अतिथिं
(ग) चौरः
(घ) अयं

Answer

Answer: (क) रक्षापुरुषः


Question 2.
‘जागरितः’ इति पदस्य समानार्थकम् पदं किम्?
(क) प्रबुद्धाः
(ख) प्रबुद्धः
(ग) आरक्षी
(घ) पलायितः

Answer

Answer: (ख) प्रबुद्धः


Question 3.
‘तस्य तारस्वरेण’ अत्र ‘तस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्
(क) चौरः
(ख) चौरस्य
(ग) चौराय
(घ) अतिथये

Answer

Answer: (ख) चौरस्य


Question 4.
‘अतिथिः’ इति पदस्य विशेषणपदं किम्?
(क) प्रबुद्धः
(ख) पदध्वनिना
(ग) चौरशङ्कया
(घ) चौरः

Answer

Answer: (क) प्रबुद्धः


Question 5.
वस्तुतः चौरः कः आसीत्?

Answer

Answer: तनूजस्य रुग्णताम् आकर्ण्य पिता व्याकुलः जातः।


Question 6.
निहिताम् मञ्जूषाम् आदाय कः पलायितः?

Answer

Answer: चौरः


Question 7.
प्रबुद्धाः ग्रामवासिनः किम् अकरोत्?

Answer

Answer: प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्र आगच्छन् वराकम् अतिथिम् एव चौरं मत्वा अभर्त्सयन्।


आदेशं प्राप्य उभौ प्राचलताम्।तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच-“रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।

Question 1.
‘स्थापितवन्तौ’ इति क्रियापदस्य कर्तृपदं किम्?
(क) एकस्मिन्
(ख) चत्वरे
(ग) उभौ
(घ) शवं

Answer

Answer: (ग) उभौ


Question 2.
‘प्रसन्नः’ इति पदस्य पर्यायः कः?
(क) क्रन्दनं
(ख) मुदितः
(ग) भारवतः
(घ) कृशकायः

Answer

Answer: (ख) मुदितः


Question 3.
‘तस्य क्रन्दन …..।’ अत्र ‘तस्य’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) रक्षापुरुषायः
(ख) न्यायाधीशाय
(ग) अतिथये
(घ) अतिथिः

Answer

Answer: (ग) अतिथये


Question 4.
‘पटाच्छादितं’ इति पदस्य विशेष्यपदं किम्?
(क) निहितं
(ख) काष्ठफलके
(ग) काष्ठं
(घ) देह

Answer

Answer: (घ) देह


Question 5.
कृशकायः कः आसीत्?

Answer

Answer: अतिथि:


Question 6.
भारवतः शवस्य स्कन्धेन वहनं कस्य कृते दुष्करम् आसीत्?

Answer

Answer: अतिथेः


Question 7.
जनस्य क्रन्दनं निशम्य आरक्षी किम् उक्तवान्?

Answer

Answer: जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान्-“रे दुष्ट! तस्मिन् दिने त्वया अहम् चोरितायाः मञ्जूषायाः ग्रहणात् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्षव। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।”


न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्-मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति। न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।

Question 1.
‘लप्स्यसे’ इति क्रियापदस्य कर्तृपदं किम्?
(क) त्वं
(ख) अतिथिः
(ग) आरक्षी
(घ) न्यायाधीशः

Answer

Answer: (क) त्वं


Question 2.
‘आरक्षिणा’ इति पदस्य विशेषणपदं किम्?
(क) अध्वनि
(ख) एतेन
(ग) यदुक्तं
(घ) मान्यवर

Answer

Answer: (ख) एतेन


Question 3.
‘मार्गे’ इत्यर्थे गद्यांशे किम् पदम् प्रयुक्तम्?
(क) आरक्षिणे
(ख) अपसार्य
(ग) एतेन
(घ) अध्वनिः

Answer

Answer: (घ) अध्वनिः


Question 4.
‘त्वं’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) न्यायाधीशस्य
(ख) अतिथेः
(ग) अतिथये
(घ) आरक्षी

Answer

Answer: (ख) अतिथेः


Question 5.
कः प्रावारकम् अपसार्य न्यायाधीशं अभिवादयति स्म?

Answer

Answer: शवः


Question 6.
न्यायाधीशेन पुनः तौ कस्याः विषये वक्तुम् आदिष्टौ?

Answer

Answer: घटनायाः


Question 7.
न्यायाधीशः कथम् न्यायम् अकरोत्?

Answer

Answer: न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य अतिथिं च ससम्मानं मुक्तवान्।


अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) तनयः छात्रावासे निवसन् अध्ययने संलग्नः समभूत्।
(ii) करुणापर: गृही तस्मै आश्रयं प्रायच्छत्।
(iii) ग्रामवासिनः स्वगृहात् निष्क्रम्य तत्र आगच्छन्।
(iv) न्यायाधीशः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
(v) अभियुक्तः कृशकायः आसीत्।

Answer

Answer:
(i) तनयः कुत्र निवसन् अध्ययने संलग्नः समभूत्?
(ii) कीदृशः गृही तस्मै आश्रयं प्रायच्छत्?
(iii) के स्वगृहात् निष्क्रम्य तत्र आगच्छन्?
(iv) न्यायाधीशः काभ्यां पृथक्-पृथक् विवरणं श्रुतवान्?
(v) अभियुक्तः कीदृशः आसीत्?


अधोलिखितानि वाक्यानि कथाक्रमेण संयोज्य लिखत

(i) न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।
(ii) कश्चन निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।
(iii) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
(iv) तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ।
(v) रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(vi) सः पिता तनूजस्य रुग्णताम् आकर्ण्य व्याकुलः जातः पुत्रं द्रष्टुम् च प्रस्थितः।
(vii) सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थं उपागतः।
(viii) उभौ शवम् आनीय एकस्मिन् चत्वरे स्थापितवन्तौ।

Answer

Answer:
(i) कश्चन् निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।
(ii) सः पिता तनूजस्य रुग्णताम् आकर्ण्य व्याकुलः जातः पुत्रं द्रष्टुम् च प्रस्थितः।
(iii) सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं काञ्चिद् गृहस्थं उपागतः।
(iv) रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(v) तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ।
(vi) न्यायाधीशः आरक्षिणम् अभियुक्तम् च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
(vii) उभौ शवम् आनीय एकस्मिन् चत्वरे स्थापितवन्तौ।
(viii) न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।


अधोलिखितवाक्येषु रेखाङिकतपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question 1.
अर्थकार्येन पीडितः सः पदातिः एव प्राचलत्।
(क) कृपणतया
(ख) धनस्य अभावेन
(ग) धनस्य आधिक्येन
(घ) धनस्य प्रचुरतया

Answer

Answer: (ख) धनस्य अभावेन


Question 2.
प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा।
(क) एकान्ते
(ख) विरक्ते
(ग) निर्गन्धे
(घ) प्रदूषणे

Answer

Answer: (क) एकान्ते


Question 3.
सर्वं वृत्तम् अवगत्य सः तं निर्दोषम् अमन्यत।
(क) गत्वा
(ख) आगत्य
(ग) ज्ञात्वा
(घ) ज्ञानं

Answer

Answer: (ग) ज्ञात्वा


Question 4.
एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि।
(क) मार्गे
(ख) द्वारे
(ग) ध्वनिरहितं
(घ) तूष्णीम्

Answer

Answer: (क) मार्गे


Question 5.
त्वया अहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः
(क) गृहीतः
(ख) निवारितः
(ग) धावितः
(घ) वरणं कुरुत

Answer

Answer: (ख) निवारितः


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

तमः, धनिकः, संकीर्णे, स्वल्पं, आरक्षी
पदानि – विलोमपदानि
(i) चौरः – …………….
(ii) प्रसृते – ……………
(iii) भूरि – ……………
(iv) निर्धनः – …………..
(v) प्रकाशः – ……………

Answer

Answer:
पदानि – विलोमपदानि
(i) चौरः – आरक्षी
(ii) प्रसृते – संकीर्णे
(iii) भूरि – स्वल्पम्
(iv) निर्धनः – धनिकः
(v) प्रकाशः – तमः


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *