MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers

Practicing the Class 10 Sanskrit Chapter 11 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit प्राणेभ्योऽपि प्रियः सुह्रद् MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितनाट्यांशान् पठित्वा प्रश्नान् उत्तरत

चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः – तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)।
शिष्यः – (उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः।
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः?
चन्दनदासः – (आत्मगतम्) अत्यादरः शङ्कनीयः। (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।

Question 1.
‘इच्छन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) प्रीताभ्यः
(ख) प्रकृतिभ्यः
(ग) प्रियम्
(घ) राजानः

Answer

Answer: (घ) राजानः


Question 2.
‘मे वणिज्या’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) शिष्याय
(ख) चन्दनदासाय
(ग) चाणक्याय
(घ) चाणक्यः

Answer

Answer: (ख) चन्दनदासाय


Question 3.
‘अखण्डिता’ इति पदस्य विशेष्यपदं किम्?
(क) आर्यस्य
(ख) मे
(ग) प्रसादेन
(घ) वणिज्या

Answer

Answer: (घ) वणिज्या


Question 4.
‘प्रविश्य’ इति पदस्य विलोमपदं किम्?
(क) निष्क्रम्य
(ख) परिक्रामतः
(ग) प्रकाशम्
(घ) उपसृत्य

Answer

Answer: (क) निष्क्रम्य


Question 5.
केन सह शिष्य प्रविशति?

Answer

Answer: चन्दनदासेन


Question 6.
चन्दनदासम् कः द्रष्टुम् इच्छति?

Answer

Answer: चाणक्यः


Question 7.
केषाम् वृद्धिलाभाः प्रचीयन्ते?

Answer

Answer: संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।


चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – आज्ञापयतु आर्यः।
चाणक्यः – राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – भवानेव तावत् प्रथमम्।

Question 1.
‘भवान् एव तावत्…..।’ अत्र ‘भवान्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) चाणक्य
(ख) चाणक्याय
(ग) चन्दनदासः
(घ) चन्दनदासाय

Answer

Answer: (घ) चन्दनदासाय


Question 2.
‘अवगम्यते’ इति पदस्य कः अर्थः?
(क) ज्ञायते
(ख) आगम्यते
(ग) दृश्यते
(घ) गम्यन्ते

Answer

Answer: (क) ज्ञायते


Question 3.
‘उत्पादयति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) नन्दस्य
(ख) नन्दस्यैव
(ग) अर्थसम्बन्धः
(घ) प्रीतिम्

Answer

Answer: (ग) अर्थसम्बन्धः


Question 4.
‘धन्यः’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) पुनरधन्यः
(ख) अधन्य
(ग) विरुद्धः
(घ) आर्यः

Answer

Answer: (ख) अधन्य


Question 5.
कस्य अर्थसम्बन्धः प्रीतिम् उत्पादयति?

Answer

Answer: नन्दस्य


Question 6.
कस्मिन् अविरुद्धवृत्तिः भव।

Answer

Answer: राजनि


Question 7.
इदम् राज्यम् कस्य अस्ति?

Answer

Answer: इदम् राज्यम् चन्द्रगुप्तस्य अस्ति।


चन्दनदासः – (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?
चाणक्यः – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
चन्दनदासः – आर्य! अलीकमेतत्। केनाप्यनार्येण आर्याय निवेदितम्।
चाणक्यः – भो श्रेष्ठिन्! अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पादयति।

Question 1.
‘रक्षसि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) चाणक्यः
(ख) चन्दनदासः
(ग) त्वम्
(घ) राजा

Answer

Answer: (ग) त्वम्


Question 2.
‘असत्यं’ इति पदस्य समानार्थकम् पदं किम्?
(क) अलीकम्
(ख) प्रच्छादनं
(ग) दोषम्
(घ) अपथ्य

Answer

Answer: (क) अलीकम्


Question 3.
‘भीताः’ इति पदस्य विशेष्यपदं किम्?
(क) पूर्व
(ख) पूर्वराजपुरूषाः
(ग) राजपुरुषाः
(घ) पौराणाम्

Answer

Answer: (ख) पूर्वराजपुरूषाः


Question 4.
‘त्वम् अद्यापि…।’ अत्र ‘त्वम्’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) चन्दनदासस्य
(ख) चन्दनदासाय
(ग) चन्दनदासः
(घ) चाणक्यः

Answer

Answer: (क) चन्दनदासस्य


Question 5.
अग्निना सह केषाम् विरोधः?

Answer

Answer: तृणानाम्


Question 6.
प्रच्छादनं किम् उत्पादयति?

Answer

Answer: दोषम्


Question 7.
पूर्वराजपुरुषाः किम् कुर्वन्ति?

Answer

Answer: पूर्वराजपुरुषाः पौराणाम् इच्छताम् अपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।


अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्उत्तराणि

(i) प्राणेभ्योऽपि प्रियः सुहृद्ः भवति।
(ii) संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।
(iii) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
(iv) तस्मिन् समये अस्मद् गृहे अमात्यराक्षसस्य गृहजनं आसीत्।
(v) नन्दस्य अर्थसम्बन्धः प्रीतिम् उत्पादयति।
(vi) राजपुरुषाः देशान्तरं व्रजन्ति।

Answer

Answer:
(i) केभ्यो प्रियः सुहृद्: भवति?
(ii) केषाम् वृद्धिलाभाः प्रचीयन्ते?
(iii) आर्यस्य प्रसादेन कस्य वणिज्या अखण्डिता?
(iv) कदा अस्मद गृहे अमात्यराक्षसस्य गृहजनं आसीत्?
(v) कस्य अर्थसम्बन्धः प्रीतिम् उत्पादयति।
(vi) राजपुरुषाः कुत्र व्रजन्ति?


अधोलिखितश्लोकस्य अन्वये रिक्तस्थानानि पूरयत

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना।।

अन्वयः- परसंवेदने (i) ……………. सुलभेषु इदं (ii) ……………. कर्म जने (iii) ……………. विना कः इदानीं (iv) …………….

Answer

Answer: परसंवेदने अर्थलाभेषु सुलभेषु इदं दुष्करं कर्म जने शिविना विना कः इदानीं कुर्यात्!


अधोलिखितश्लोकस्य भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

अन्वयः- यथा प्राचीनकाले नृपः (i) ……………. शरणागतस्य कपोतस्य प्राणरक्षायै स्वशरीरस्य (ii) ……………. अपि कर्तित्वा अयच्छत् तथैव श्रेष्ठी चन्दनदासः राज्ञः पारितोषकं प्रभूतं धनं च (iii) ……………. स्वमित्रस्य (iv) ……………. अरक्षत्।

Answer

Answer: (i) शिवि (ii) अङ्गानि (ii) तृणीकृत्य (iv) परिवारं


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(ii) मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
(iii) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
(iv) ते अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभा:?
(v) तस्मिन् समये आसीदस्मद् गृहे अमात्यराक्षसस्य गृहजन इति।
(vi) त्वम् अद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
(vii) चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति।
(viii) सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?

Answer

Answer:
(i) मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
(ii) ते अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः।
(iii) आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(iv) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
(v) चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति।
(vi) त्वम् अद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
(vii) तस्मिन् समये आसीदस्मद् गृहे अमात्यराक्षसस्य गृहजन इति।
(viii) सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत

Question 1.
सन्तम् अपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(क) सज्जनाः
(ख) सन्तः
(ग) निवसन्तम्
(घ) सज्जनं

Answer

Answer: (ग) निवसन्तम्


Question 2.
अलीकम् एतत् कथनम्।
(क) असत्यम्
(ख) अदृश्यम्
(ग) अलौकिकं
(घ) दर्शणीयम्

Answer

Answer: (क) असत्यम्


Question 3.
आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(क) निर्बाधा
(ख) वर्धिताः
(ग) समाप्ता
(घ) वृद्धिः

Answer

Answer: (क) निर्बाधा


Question 4.
एषः एव ते निश्चयः।
(क) त्वम्
(ख) त्वयि
(ग) तव
(घ) त्वत्

Answer

Answer: (ग) तव


Question 5.
बाढम्, एषः एव मे निश्चयः।
(क) अहम्
(ख) उचितम्
(ग) शुद्धम्
(घ) सत्यम्

Answer

Answer: (क) अहम्


अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत

आदरः, सत्यं, सन्तम्, पुण्यं, अनार्येण
पदानि – विलोमपदानि
(i) पापं – ………………
(ii) आर्येण – ………………
(iii) मृषा – ……………..
(iv) असन्तम् – ……………..
(v) निरादरः – ……………..

Answer

Answer:
पदानि – विलोमपदानि
(i) पापं – पुण्यम्
(ii) आर्येण – अनार्येण
(iii) मृषा – सत्यम्
(iv) असन्तम् – सन्तम्
(v) निरादरः – आदरः


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *